SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृचिः ॥३३३॥ Jain Education In च बोद्धव्यानि तेषां प्रमाणं च भवनवत्, तत्र खेदापनोदाय भवनेषु शयनीयानि प्रासादेषु त्वास्थानसभा इति, ननु |भवनानि विषमायामविष्कम्भानि पद्मद्रहादिमूलपद्मभवनादिषु तथा दर्शनात् प्रासादास्तु समायामविष्कम्भाः दीर्घवै| ताढ्य कूटगतेषु वृत्तवैताढ्यगतेषु विजयादिराजधानीगतेषु अन्येष्वपि विमानादिगतेषु च प्रासादेषु समचतुरस्रत्वेन समायामविष्कम्भत्वस्य सिद्धान्तसिद्धत्वात् तत्कथमत्र प्रासादानां भवनतुल्यप्रमाणता घटते ?, उच्यते, 'ते पासाया कोसं | समूसिआ अद्धकोसविच्छिण्णा' इत्यस्य पूज्य श्रीजिनभद्रगणिक्षमाश्रमणोपज्ञक्षेत्रविचारगाथार्द्धस्य वृत्तौ ते प्रासादाः क्रोशमेकं देशोनमिति शेषः समुच्छ्रिता - उच्चाः क्रोशार्द्ध-अर्द्धक्रोशं विस्तीर्णाः परिपूर्णमेकं क्रोशं दीर्घा इति श्रीमलयगिरिपादाः तथा जम्बूद्वीपसमासप्रकरणे " प्राच्ये शाले भवनं इतरेषु प्रासादाः मध्ये सिद्धायतनं सर्वाणि विजयार्द्धमानानी" ति श्रीउमास्वातिवाचकपादाः तथा तपागच्छाधिराजपूज्य श्रीसोमतिलकसूरिकृतन व्य बृहत्क्षेत्रविचारसत्कायाः "पासाया सेस दिसासालासु वेअद्धगिरिगयथ तओ" इत्यस्या गाथाया अवचूर्णो - " शेषासु तिसृषु शाखासु | प्रत्येकमेकैकभावेन तत्र त्रयः प्रासादाः - आस्थानोचितानि मन्दिराणि देशोनं क्रोशमुच्चाः क्रोशार्द्ध विस्तीर्णाः पूर्ण क्रोशं दीर्घाः” इति श्रीगुणरत्नसूरिपादाः यदाहुः तदाशयेन प्रस्तुतोपाङ्गस्योत्तरत्र जम्बूपरिक्षेपकवनवापीपरिगतप्रासादप्रमाणसूत्रानुसारेण च इत्येवं निश्चिनुमो जम्बूप्रकरणप्रासादा विषमायामविष्कम्भा इति, यत्तु श्रीजीवाभिगमसूत्रवृत्तौ 'क्रोशमेकमूर्ध्वमुच्चैस्त्वेन अर्द्धक्रोशं विष्कम्भेने' त्युक्तं तद्गम्भीराशयं न विद्मः । अथास्याः पद्मवरवेदिकादिस्वरू For Private & Personal Use Only ४वक्षस्कारे जम्बूवृक्षवर्णनं सू. ९० ॥३३३॥ w.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy