________________
Jain Education Inter
त्वात्, पुरुषस्य कटिभाग इव, अन्यथा विडिमाया द्वियोजनातिक्रमे निश्चयप्राप्तस्य मध्यभागस्य ग्रहणे पूर्वापरशा - | खाद्वय विस्तारस्य ग्रहणसम्भवः विषमश्रेणिकत्वात्, अथवा बहुमध्यदेशभागः शाखानामिति गम्यते, कोऽर्थः १ - यतश्च|तुर्दिक्शाखामध्यभागस्तस्मिन्नित्यर्थः, अष्टयोजनानयनं तु तथैव, उच्चत्वेन तु सर्वाग्रेण - सर्वसङ्ख्यया कन्दस्कन्धविडिमापरिमाणमीलने सातिरेकाण्यष्टौ योजनानीति, अथास्या वर्णकमाह- 'तीसे ण' मित्यादि, तस्या जम्बंवा अयमेतद्रूपो वर्णावासः प्रज्ञप्तः, वज्रमयानि मूलानि यस्याः सा वज्रमयमूला तथा रजता - रजतमयी सुप्रतिष्ठिता विडिमा| बहुमध्यदेश भागे ऊर्ध्वविनिर्गता शाखा यस्याः सा रजतसुप्रतिष्ठितविडिमा, ततः पदद्वयकर्मधारयः, यावत्पदात् | चैत्यवृक्षवर्णकः सर्वोऽप्यत्र वाच्यः कियत्पर्यन्तमित्याह — अधिकमनोनिर्वृतिकरी प्रासादीया दर्शनीया इत्यादि । अथा| स्याः शाखाव्यक्तिमाह – 'जंबूए ण' मित्यादि, जम्ब्वाः सुदर्शनायाः चतुर्दिशि चतस्रः शाला :- शाखाः प्रज्ञप्ताः, तासां | शालानां बहुमध्यदेशभागे उपरितन विडिमाशालायामित्यध्याहार्य जीवाभिगमे तथा दर्शनात् शेषं सुलभं वैताढ्य| सिद्धकूटगतसिद्धायतनप्रकरणतो ज्ञेयमित्यर्थः, अत्र पूर्वशालादौ यत्र यदस्ति तत्र तद्वकुमाह - ' तत्थ ण' मित्यादि, तत्र - तासु चतसृषु शालासु या सा पौरस्त्या शाला सूत्रे प्राकृतत्वात् पुंस्त्वनिर्देशः अत्र भवनं प्रज्ञप्तं क्रोशमायामेन | 'एवमेवे 'ति सिद्धायतनवदिति, अर्द्धक्रोशं विष्कम्भेन देशोनं क्रोशमुचत्वेनेति प्रमाणं द्वारादिवर्णकश्च वाच्यः, नवरमत्र शयनीयं वाच्यं, शेषासु दाक्षिणात्यादिशालासु प्रत्येकमेकैकभावेन त्रयः प्रासादावतंसकाः सिंहासनानि सपरिवाराणि
For Private & Personal Use Only
wjainelibrary.org