________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥३२९॥
Jain Education Inte
मान्तादष्ट शतानि चतुस्त्रिंशदधिकानि चत्वारि च सप्तभागान् योजनस्य अबाधया कृत्वा इति गम्यं, अपान्तराले मुक्त्वेति भावः, शीताया महानद्या बहुमध्यदेश भागेऽत्रान्तरे नीलवद्द्रहो नाम द्रहः प्रज्ञप्तः, दक्षिणोत्तरायतः प्राचीनप्रतीचीनविस्तीर्णः, पद्मद्रहश्च प्रागपरायतः उदग्दक्षिण पृथुरिति पृथग्विशेषणं यथैव पद्मद्रहे वर्णकस्तथैव नेतव्यः, नानात्वमिति विशेषोऽयं, द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्यां सम्परिक्षिप्तः, अयं भावः - पद्मद्रह एकया पद्मवरवेदिकया एकेन च वनखण्डेन परिक्षिप्तः, अयं तु प्रविशन्त्या निर्यान्त्या च शीतया महानद्या द्विभागीकृतत्वेनोभयोः पार्श्वयोर्त्ति - | नीभ्यां वेदिकाभ्यां युक्त इति सम्यक्, अर्थश्च नीलवद्वर्षधरनिभानि तत्र तत्र प्रदेशेषु शतपत्रादीनि सन्ति अथवा नीलव| नामा नागकुमारो देवोऽत्राधिपतिरिति नीलवान् इद इति शेषं पद्मादिकं तदेव नेतव्यं, पद्मद्रह इव पद्ममानसङ्ख्या| परिक्षेपादिकं ज्ञातव्यमित्यर्थः ॥ अथ काञ्चनगिरिव्यवस्थामाह -- 'णीलवन्त' इत्यादि, नीलवद्द्रहस्य पूर्वापरपार्श्वयोः | प्रत्येकं दशदशयोजनान्यबाधया कृत्वेति गम्यं, अपान्तराले मुक्त्वेति भावः, अत्रान्तरे दक्षिणोत्तरश्रेण्या परस्परं मूले सम्बद्धाः अन्यथा शतयोजनविस्ताराणामेषां सहस्रयोजनमाने द्रहायामेऽवकाशासम्भव इति, विंशतिः काञ्चनकपर्वताः प्रज्ञताः, एकं योजनशतमूर्ध्वोच्चत्वेन, गाथाद्वयेनैतेषां विष्कम्भपरिक्षेपावाह — मूले योजनशतं मध्ये - मूलतः पश्चाशयोजनोर्ध्वगमने पञ्चसप्ततिर्योजनानि उपरितने-शिखरतले पञ्चाशद्योजनानि विस्तारेण भवंति काञ्चनकाभिधाः पर्वताः ॥ १ ॥ मूले त्रीणि योजनशतानि षोडशाधिकानि मध्ये द्वे योजनशते सप्तत्रिंशदधिके अष्टपञ्चाशदधिकयोजनशतं
For Private & Personal Use Only
४ वक्षस्कारे नीलबदादिग्रहकाअश्वनपर्वताः
सू. ८९
॥३२९॥
jainelibrary.org