SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ | तावद् वक्तव्यं यावद् बहवः सहस्रपत्रहस्तकाः सर्वरत्नमया इत्यादि । सुधर्मसभातः परं किमस्तीत्याह-'तासि ॥'मित्यादि, तयोः सुधर्मसभयोरुत्तरपूर्वस्यां दिशि द्वे सिद्धायतने प्रज्ञप्ते इति शेषः, प्रतिसभमेकैकसद्भावादिति, अत्र लाघवार्थमतिदेशमाह-एष एव-सुधर्मासभोक्त एव जिनगृहाणामपिगमः-पाठोऽवगन्तव्यः, स चायम्-'ते णं सिद्धाययणा अद्धतेरसजोषणाई आयामेणं छस्सकोसाइं विक्खम्भेणं णव जोअणाई उद्धं उच्चत्तेणं अणेगखम्भसयसण्णिविट्ठा' इत्यादि, यथा सुधर्मायास्त्रीणि पूर्वदक्षिणोत्तरवर्तीनि द्वाराणि तेषां पुरतो मुखमण्डपाः तेषां च पुरतः प्रेक्षामण्डपाः | तेषां पुरतः स्तूपाः तेषां पुरतश्चैत्यवृक्षाः तेषां पुरतो महेन्द्रध्वजाः तेषां पुरतो नन्दापुष्करिण्य उकास्तदनु सभायां , षड् मनोगुलिकासहस्राणि षडू गोमानसीसहस्राण्युक्तानि एवमनेनैव क्रमेण सर्व वाच्यम् , अत्र च सुधर्मातो यो विशे18 पस्तमाह-'णवरं इमं णाणतं'इत्यादि व्यक्तम् , अथ सुधर्मासभोक्तमेव सभाचतुष्केऽतिदिशन्नाह-एवं अवसेसाणवि' 18 इत्यादि, एवं सुधर्मान्यायेन अवशिष्टानामुपपातसभादीनां वर्णनं ज्ञेयं, कियत्पर्यन्तमित्याह-यावदुपपातसभायां128|| उत्पित्सुदेवोत्पत्त्युपलक्षितसभायां शयनीयं वर्णनीयं तच्च प्राग्वत्,तथा इदश्च वक्तव्यो नन्दापुष्करिणीमानः,स चोत्पन्नदेवस्य% शुचित्वजलक्रीडादिहेतुः, ततोऽभिषेकसभायां-अभिनवोत्पन्नदेवाभिषेकमहोत्सवस्थानभूतायां बहु आभिषेक्यं-अभिषेकयोग्यं भाण्डं वाच्यं, तथा अलङ्कारसभायां-अभिषिक्तसरभूषणपरिधानस्थानरूपायां सुबहु अलङ्कारिकभाण्डं-अलकारयोग्य भाण्डं तिष्ठति, व्यवसायसभयोः-अलंकृतसुरशुभाध्यवसायानचिन्तनस्थानरूपयोः पुस्तकरने ततो बलिपीठे। Jain Education For Pres Personal use only C ure.dainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy