SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृचिः ॥३२७॥ Jain Education Int | समये हि गीः ॥ १० ॥ सा चैवम् -- दक्षिणस्यां विमाना ये, सौधर्मेशस्य तेऽखिलाः । उत्तरस्यां तु ते सर्वेऽपीशानेन्द्रस्य सत्तया ॥ ११ ॥ पूर्वस्यामपरस्यां च वृत्ताः सर्वे विमानकाः । त्रयोदशापीन्द्रकाश्च स्युः सौधर्मसुरेशितुः | ॥ १२ ॥ पूर्वापरदिशोख्यस्राश्चतुरस्राश्च ते पुनः । सौधर्माधिपतेरर्द्धा, अर्द्धा ईशान चक्रिणः ॥ १३ ॥ सनत्कुमारमा| हेन्द्रेऽप्येष एव भवेत् क्रमः । वृत्ता एव हि सर्वत्र, स्युर्विमानेन्द्रकाः पुनः ॥ १४ ॥ इत्थं व्यवस्थया चेतःस्वास्थ्यमास्थाय सुस्थिरौ । विमत्सरौ प्रीतिपरी, जज्ञाते तौ सुरेश्वरी ॥ १५॥” इति अथ प्रकृतं प्रस्तूयते - 'माणवगस्स इत्यादि, माणवकस्य चैत्यस्तम्भस्य पूर्वेण - पूर्वस्यां दिशि सुधर्मायामेव सभायां सिंहासने सपरिवारे स्तः, यमकदेवयोः | प्रत्येकमेकैकसद्भावात् तस्मादेव पश्चिमायां दिशि शयनीये वर्णकश्च तदीयः श्रीदेवीवर्णनाधिकारे उक्तः, शयनीययोरुत्तरपूर्वस्यां दिशि क्षुल्लक महेन्द्रध्वजौ स्तः, तौ च मानतो महेन्द्रध्वजप्रमाणौ, सार्द्धसप्तयोजनप्रमाणावुच्चत्वेनार्द्धक्रोशमुद्वेधेन - बाहल्याभ्यामित्यर्थः ननु यदीमौ प्रागुक्तमहेन्द्रध्वजतुल्यौ तदा किमिमा धुलकेन विशे| षितौ ?, उच्यते, मणिपीठिकाविहीनौ, अत एव क्षुल्लौ, कोऽर्थ: : -द्वियोजनप्रमाणमणिपीठिको परिस्थितत्वेन पूर्वे महान्तो महेन्द्रध्वजास्तदपेक्षया इमौ च क्षुल्लावित्यर्थादागतमिति तयोः क्षुलमहेन्द्रध्वजयोरेकैकराजधामी| सम्बन्धिनोरपरेण पश्चिमायां चोप्पालो नाम प्रहरणक्रोशः - प्रहरणभाण्डागारं तत्र बहूनि परिघरलप्रमुखाणि यावत्पदात् प्रहरणरलानि सन्निक्षिप्तानि तिष्ठन्ति, 'सुहम्माण' मित्यादि, सुधर्मयोरुपर्यष्टाष्टमङ्गलकानि इत्यादि For Private & Personal Use Only ४ वक्षस्कारे यमपर्वत पर्णनं सू. ८८ ॥३२७॥ wjainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy