________________
Jain Education In
पीठिकाया द्विगुणमानत्वेन दृष्टत्वाच्चायं सम्यक् पाठः सम्भाव्यते, आदर्शेषु लिपिप्रमादस्तु सुप्रसिद्ध एव, अथ स्तूप| वर्णनायाह - 'तासि ण' मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं २ स्तूपाः प्रज्ञप्ताः, जीवाभिगमादौ तु चैत्यस्तूपा इति द्वे योजने ऊर्ध्वोच्चत्वेन द्वे योजने आयामविष्कम्भाभ्यां 'व्याख्यातो विशेषप्रतिपत्ति' रिति देशोने द्वे योजने। आयामविष्कम्भाभ्या ग्राह्ये, अन्यथा मणिपीठिकास्तूपयोरभेद एव स्यात्, जीवाभिगमादौ तु सातिरेके द्वे योजने उच्चत्वमित्यर्थः, ते च श्वेताः, श्वेतत्वमेवोपमया द्रढयति- 'संखदल'ति यावत्करणात् 'संखदल विमलनिम्मलदधिघणगोखीरफेणरययनिअरप्पगासा सबरयणामया अच्छा जाव पडिरुवा' इति प्राग्वत्, कियद्दूरं ग्राह्यमित्याह - यावद - |ष्टाष्टमङ्गलकानीति । अथ तच्चतुर्दिशि यदस्ति तदाह - 'तासि णं श्रुभाण' मित्यादि, तेषां स्तूपानां प्रत्येकं चतुर्दिक्षु चतस्रो मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिकाः योजनमायामविष्कम्भेन अर्द्धयोजनं बाहल्येन, अत्र जिनप्रतिमा वक्तव्याः, तत्सूत्रं चेदम् - 'तासि णं मणिपेढिआणं उपिं पत्ते पत्तेअं चत्तारि जिनपडिमाओ जिणुस्सेहप्पमाणमि| त्ताओ पलिअंकसण्णिसण्णाओ थूभाभिमुहीओ सण्णिक्खित्ताओ चिति, तंजहा—-उसभा वद्धमाणा चन्दाणणा वारिसेणा' इति, एतद्वर्णनादिकं वैताढ्ये सिद्धायतनाधिकारे प्रागुक्तं, गताः स्तूपाः, 'चेइअरुक्खाण' मित्यादि, व्यक्तम्, | अत्र चैत्यवृक्षवर्णको जीवाभिगमोक्तो वाच्यः, स चायम् – 'तेसि ण चेइअरुक्खाणं अयमेआरूवे वण्णावासे पण्णत्ते, तं ० - वइरमूलरयय सुपइट्ठिअविडिमा रिट्ठामयकंदवेरुलिअरुइलखंधा सुजायवरजायरूवपढमविसालसाला णाणामणि
For Private & Personal Use Only
www.jainelibrary.org