________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
.
॥३२३॥
Jain Education Inte
| तदतिदेशेन मुखमण्डपसूत्रेऽपि तावन्मात्रमेवायाति तथापि जीवाभिगमादिषु मुखमण्डपवर्णके भूमिभागवर्णकस्य दृष्टत्वात् अत्रातिदेशः, अथ प्रेक्षामण्डपवर्णकं लाघवादाह - 'पेच्छाघर मण्डवाण' मित्यादि, प्रेक्षागृहमण्डपानां- रङ्गमण्डपानां तदेव - मुखमण्डपोक्तमेव प्रमाणं, भूमिभाग इतिपदेन सर्वे द्वारादिकभूमिभागपर्यन्तं वाच्यं, एषु च मणिपीठिका वाच्या, एतावदर्थसूचकमिदं सूत्रम् -- ' तेसि णं मुहमण्डवाणं पुरओ पत्तेअं २ पेच्छाघरमंडवा पण्णत्ता, ते णं | पेच्छाघरमंडवा अद्धत्तेरसजोअणाई आयामेणं जाव दो जोअणाई उद्धं उच्चत्तेणं जाव मणिफासो, तेसि णं बहुमज्झ| देसभाए पत्ते २ वइरामया अक्खाडया पण्णत्ता, तेसि णं बहुमज्झदेसभाए पत्ते २ मणिपेढिआओ पण्णत्ताओ' ति उक्तप्रायं, नवरमक्षपाटः - चतुरस्राकारो मणिपीठिकाधारविशेषः, अस्याः प्रमाणाद्यर्थमाह- 'ताओ णं मणिपेढिआओ | जोअणं आयामविक्खंभेणं अद्धजोअणं बाहल्लेणं सवमणिमईओ सीहासणा भाणिअबा' इति, अत्र सिंहासनानि भणितव्यानि सपरिवाराणीत्यर्थः, शेषं व्यक्तम्, अथ स्तूपावसरः - ' तेसि णमित्यादि, तेषा प्रेक्षागृहमण्डपानां पुरतो | मणिपीठिका:, अत्र बहुवचनं न प्राकृतशैलीभवं यथा द्विवचनस्थाने बहुवचनं हत्था पाया इत्यादिषु किन्तु बहुत्वविवक्षार्थं, तेनात्र तिसृषु प्रेक्षागृहमण्डपद्वारदिक्षु एकैकसद्भावात् तिस्रो ग्राह्याः, अन्यत्र जीवाभिगमादिषु तथा | दर्शनात्, अथैतासां मानमाह – 'ताओ ण' मित्यादि, कण्ठ्यं, यद्यप्येतत्सूत्रादर्शेषु 'जोअणं आयामविक्खम्भेणं अद्धजोअणं बालेणं' इति पाठो दृश्यते तथापि जीवाभिगमपाठदृष्टत्वेन राजप्रश्नीयादिषु प्रेक्षामण्डपमणिपीठिकातः स्तूपमणि
For Private & Personal Use Only
४वक्षस्कारे यमकपर्वत
वर्णनं
सू. ८८
॥३२३॥
jainelibrary.org