________________
लाउल्लोइअमहिआओ गोसीससरससुरभिरत्तचन्दणदद्दरदिण्णपंचंगुलितलाओ उवचिअचन्दणकलसाओ चन्दणघडसुकयतोरणपडिदुवारदेसभागाओ आसत्तोसत्तविउलवट्टवग्धारिअमल्लदामकलावाओ पंचवण्णसरससुरहिमुक्कपुप्फपुंजोवयारकलिआओ कालागुरुपवरकुंदुरुक्कतुरुक्कधूवडझंतमघमघेतगन्धु आभिरामाओ सुगंधवरगंधिआओ गन्धवट्टिभूआओ अच्छरगणसंघविकिण्णाओ दिवतुडिअसहसंपणदिआओ सबरयणामईओ अच्छाओ जाव पडिरूवाओ'इति,अत्र व्याख्या तु सिद्धायतनतोरणादिवर्णकेषु उञ्छवृत्तिन्यायेन सुलभेति न पुनरुच्यते नवरं अप्सरोगणानां-अप्सरःपरिवाराणांयःसंघः-समुदायस्तेन सम्यक्-रमणीयतया विकीर्णा-आकीर्णा दिव्यानां त्रुटिताना-आतोद्यानां ये शब्दास्तैः सम्यक् श्रोत्रमनोहारितया प्रकर्षेण नदिता-शब्दवती, शेषं प्राग्वत् , अथास्यां कति द्वाराणीत्याह-तासि णं सभाण'मित्यादि, तयोः सभयोः सुधर्मयोस्त्रिदिशि त्रीणि द्वाराणि प्रज्ञप्तानि, पश्चिमायां द्वाराभावात् , तानि द्वाराणि प्रत्येकं द्वे योजने ऊर्बोच्चत्वेन योजनमेकं विष्कम्भेन तावदेव-योजनमेकं प्रवेशेन, श्वेता इत्यादि पदेन सूचितः परिपूर्णो द्वारवर्णको वाच्यो यावद्वनमाला, अथ मुखमण्डपादिषट्रनिरूपणायाह-'तेसि णं दाराण'मित्यादि, तेषा द्वाराणां पुरतः प्रत्येक २ त्रयो मुखमण्डपाः प्रज्ञप्ताः, सभाद्वाराप्रवर्त्तिनो मण्डपा इत्यर्थः, ते च मण्डपा अर्द्धत्रयोदशयोजनान्यायामेन षट् । सक्रोशानि योजनानि विष्कम्भेन सातिरेके द्वे योजने ऊोच्चत्वेन, एतेषामपि 'अणेगखंभसयसण्णिविद्वा'इत्यादि वर्णनं सुधर्मासभा इव निरवशेष द्रष्टव्यं, यावद् द्वाराणां भूमिभागानां च वर्णनं, यद्यप्यत्र द्वारान्तमेव सभावर्णनं
Jan Education
en
For Private
Personal use only
O
w.tainelibrary.org