________________
मलप्रासादापेक्षया चतुर्भागप्रमाणैः प्रासादैः परिक्षिप्ताः, अत एवैते षोडश प्रासादाः सर्वसङ्ख्यया स्युः, एषामुच्चत्वादिकं तु साक्षादेव सूत्रकृदाह-ते प्रासादाः सातिरेकाणि-अर्द्धक्रोशाधिकानि सार्द्धपञ्चदशयोजनान्युच्चत्वेन सातिरेकाणि-क्रोशचतुर्थांशाधिकानि अर्द्धाष्टमयोजनान्यायामविष्कम्भाभ्यामिति, अथ तृतीया पंक्तिः, तत्सूत्रमेवम्-'ते णं 8 |पासायवडेंसया अण्णेहिं चउहिं तदछुच्चत्तप्पमाणमित्तेहिं पासायव.सएहिं सबओ समन्ता संपरिक्खित्ता' ते द्वितीयपरिधिस्थाः षोडश प्रासादाः प्रत्येकमन्यैश्चतुर्भिस्तदोच्चत्वविष्कम्भायामैर्मूलप्रासादापेक्षयाऽष्टांशप्रमाणोच्चत्वविष्कम्भायामैः सर्वतः समन्तात् सम्परिक्षिप्ताः, अत एवैते तृतीयपंक्तिगताश्चतुःषष्टि प्रासादाः, एतेषामुच्चत्वादिप्रमाणं सूत्रकृदाह-ते चतुःषष्टिरपि प्रासादाः सातिरेकाण्यर्द्धाष्टमयोजनान्युच्चत्वेन सातिरेकत्वं च प्राग्वत् , अध्युष्टानि-अर्द्धतृती| यानि सातिरेकाणि सार्द्धक्रोशाष्टांशाधिकानि विष्कम्भायामाभ्यां, एषां सर्वेषां वर्णकः सिंहासनानि च सपरिवाराणि प्राग्वत् । अत्र च पंक्तिप्रासादेषु सिंहासनं प्रत्येकमेकैकं, मूलप्रासादे तु मूलसिंहासनं सिंहासनपरिवारोपेतमित्यादि क्षेत्रसमासवृत्तौ श्रीमलयगिरिपादाः तथा प्रथमतृतीयपंक्त्योर्मूलप्रासादे परिवारे भद्रासनानि द्वितीयपंक्तौ च परिवारे पद्मासनानि इति जीवाभिगमोपाङ्गे इत्यादि विसंवादसमाधानं बहुश्रुतगम्यम् , यद्यपि जीवाभिगमे विजयदेवप्रकरणे तथा श्रीभगवत्सङ्गवृत्तौ चमरप्रकरणे प्रासादपंक्तिचतुष्कं तथाप्यत्र यमकाधिकारे पंक्तित्रयं बोध्यं, पंक्तित्रयप्रासादसंग्रह
SASRSSC094992906
Jain Education
For Private Persone Use Only
etainelibrary.org