________________
S| मध्ये षट् सक्रोशानि योजनानि विष्कम्भेन, मूल विष्कम्भतो मध्यविष्कम्भस्यार्द्धमानत्वात् , उपरि त्रीणि सार्द्धकोशानि IS योजनानि विष्कम्भेनास्यापि मध्यविष्कम्भतोऽर्द्धमानत्वात् , अत एव मूले विस्तीर्णावित्यादि पदत्रयं विवृतप्रायं, बहि-1॥
वृत्तौ अनुपलक्ष्यमाणकोणत्वात् अन्तश्चतुरस्रो उपलक्ष्यमाणकोणत्वात् शेषं प्राग्वत्, अथानयोः कपिशीर्षकवर्णक |माह-'तेणं पागाराणाणामणि'इत्यादि,तौ प्राकारौ नानामणीनां पद्मरागस्फटिकमरकताञ्जनादीनां पंचप्रकारा वर्णा येषु तानि तथा तैः कपिशीर्षकैः-प्राकारारुपशोभितौ, एतदेव विवृणोति तद्यथा-कृष्णैर्यावच्छुक्लैरिति, अर्थतेषां कपिशीर्षकाणामुच्चत्वादिमानमाह-'ते ण'मित्यादि, निगदसिद्धं, अथानयोः कियन्ति द्वाराणीत्याह-'जमिगाण'मित्यादि, यमिकयो राजधान्योरेकैकस्यां बाहायां पार्थे पंचविंशत्यधिकं २ द्वारशतं प्रज्ञप्तं, तानि द्वाराणि द्वाषष्टियोजनानि अर्द्धयोजनं च ऊर्वोच्चत्वेन एकत्रिंशद्योजनानि क्रोशं च विष्कम्भन तावदेव प्रवेशेन श्वेतानि वरकनकम्रपिकाकानि, लाघवार्थमतिदेशेनाह-एवं राजप्रश्नीये यद्विमानं सूर्याभनामकं तस्य वक्तव्यतायां यो द्वारवर्णकः स इहापि ग्राह्यः, कियत्पर्यन्तमित्याह-यावदष्टाष्टमङ्गलकानि, अत्रातिदिष्टमपि सूत्रं न लिखितं, विजयद्वारप्रकरणे सूत्रतोऽर्थतश्च लिखि|तत्वात् अतिदिष्टत्वस्योभयत्रापि साम्याच्चेति, अथानयोर्बहिर्भागे वनखण्डवक्तव्यमाह-'जमियाण'मित्यादि, यमि
कयो राजधान्योश्चतुर्दिशि चतसृणां दिशां समाहारश्चतुर्दिक् तस्मिंस्तथा, पूर्वादिष्वित्यर्थः, पंचपंचयोजनशतान्यबा४ धायां अपान्तराले कृत्वेति गम्यते चत्वारि वनखण्डानि प्रज्ञप्तानि,तद्यथा-अशोकवनं सप्तपर्णवनं चम्पकवनं आघवनमिति,
Jain Education inte
For Private Personal Use Only
ION.jainelibrary.org