________________
श्रीजम्पू. ५४
यमको नाम द्वौ पर्वतौ प्रज्ञप्तौ, एकं योजनसहस्रमूर्ध्वोच्चत्वेन अर्द्ध तृतीयानि योजनशतान्युद्वेधेन उच्छ्रयचतुर्थांशस्य भूम्यवगाहात् मूले योजनसहस्रमायामविष्कम्भाभ्यां वृत्ताकारत्वात् मध्ये-भूतलतः पञ्च योजनशतातिक्रमेऽर्द्धाष्टमानि योज| नशतानि आयामविष्कम्भाभ्यां उपरि-सहस्रयोजनातिक्रमे पञ्चयोजनशतान्यायामविष्कम्भाभ्यां मूले त्रीणि योजनसहस्राणि एकं च योजनशतं द्वाषष्ट्यधिकं किंचिद्विशेषाधिकं कियत्कलमित्यर्थः, परिक्षेपेण, एवं मध्यपरिधिरुपरितनपरिधिश्च स्वयमभ्यूह्यौ, मूले विस्तीर्णो मध्ये संक्षिप्तावुपरि तनुकौ यमकौ - यमलजातौ भ्रातरौ तयोर्यत्संस्थानं तेन संस्थितौ परस्परं सदृशसंस्थानावित्यर्थः, अथवा यमका नाम शकुनिविशेषास्तत्संस्थानसंस्थितौ संस्थानं चानयोर्मूलतः | प्रारभ्य संक्षिप्तसंक्षिप्त प्रमाणत्वेन गोपुच्छस्येव बोध्यं, सर्वात्मना कनकमयौ शेषं व्यक्तं, अष्टशताद्यङ्कोत्पत्तिरेवं-नीलव| द्वर्षधरस्य यमकयोश्च प्रथमं यमकयोः प्रथमहदस्य च द्वितीयं प्रथमइदस्य द्वितीयइदस्य च तृतीयं द्वितीयइदस्य तृतीयहदस्य च चतुर्थं तृतीयहदस्य चतुर्थद्रदस्य च पंचमं चतुर्थदस्य पंचमहदस्य च पष्ठं पंचमहदस्य वक्षस्कार गिरिपर्यन्तस्य च सप्तमं एतानि च सप्ताप्यन्तराणि समप्रमाणानि, ततश्च कुरुविष्कम्भात् योजन ११८४२ कला २ इत्येवंरूपात् योजन सहस्रायामयोर्यमकयोः योजनसहस्रमेकं तावत्प्रमाणायामानां पंचानां हृदानां च योजनसहस्रमे (कै) कं | उभयमीलने योजन सहस्रपटुकं शोध्यते शोधिते च जातं योजन ५८४२ कला २ ततः सप्तभिर्भागे हृते ८३४ ४, | यच्चावशिष्टं कुरुसत्कं कलाद्वयं तदल्पत्वान्नं विवक्षितमिति । अत्रैवानन्तरीक वेदिकावनखण्डप्रमाणाद्याह-- 'ताओ
For Private & Personal Use Only
www.jainelibrary.org