________________
Jain Education In
जीवा - उत्तरतो नीलवद्वर्षधरासन्ना कुरुचरमप्रदेशश्रेणिः पूर्वापरायता द्विधा पूर्वपश्चिम भागाभ्यां वक्षस्कारपर्वतं स्पृष्टा, एतदेव विवृणोति, तद्यथा- पौरस्त्यया कोट्या पौरस्त्यं वक्षस्कारपर्वतं माल्यवन्तं स्पृष्टा पाश्चात्यया पाश्चात्यं गन्धमा| दननामानं वक्षस्कारपर्वतं स्पृष्टा, त्रिपञ्चाशद्योजनसहस्राणि आयामेन, तत्कथमिति १, उच्यते, मेरोः पूर्वस्यां दिशि | भद्रशालवनमायामतो द्वाविंशतियोंजन सहस्राणि एवं पश्चिमायामपि, उभयमीलने जातं चतुश्चत्वारिंशत्सहस्राणि मेरुविष्कम्भे दशसहस्रयोजनात्मके प्रक्षिप्ते जातं चतुष्पञ्चाशद्द्योजनसहस्राणि, एकैकस्य वक्षस्कारगिरेर्वर्षधरसमीपे पृथुत्वं | पञ्च योजनशतानि ततो द्वयोर्वक्षस्कारगिर्योः पृथुत्वपरिमाणं योजनसहस्रं तत्पूर्वराशेरपनीयते, जातः पूर्वराशिस्त्रि - | पञ्चाशद्योजनसहस्राणीति । अथैतासां धनुः पृष्ठमाह-- 'ती से णं धणुं दाहिणेण 'मित्यादि, तासां धनुःपृष्ठं दक्षिणतो | मेर्वासन्न इत्यर्थः, षष्टियोजन सहस्राणि चत्वारि च योजनशतानि अष्टादशानि-अष्टादशाधिकानि द्वादश चैकोनविंशति| भागान् योजनस्य परिक्षेपेण, तथाहि — एकैकवक्षस्कारगिरेरायामस्त्रिंशद्योजन सहस्राणि द्वे च नवोत्तरे षट् च कलाः, ततो द्वयोर्वक्षस्कारयोमलने यथोक्तं मानमिति, अथैतासां स्वरूपप्ररूपणायाह -- ' उत्तरकुराए ण' मित्यादि, उत्तरकु रूणां भदन्त ! कीदृश आकारभावप्रत्यवतारः - स्वरूपाविर्भावः प्रज्ञप्तः ?, गौतम ! बहुसमरमणीयो भूमिभागः प्रज्ञतः, एवमुक्तन्यायेन पूर्वं भरतप्रकरणे वर्णिता या एव सुषमसुषमायाः आधारकस्य वक्तव्यता सैव निरवशेषा नेतव्या,
For Private & Personal Use Only
www.jainelibrary.org