SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ।।३१५।। Jain Education Inte | मदयति वा तन्निवासिदेवदेवीनां मनांसि इति गन्धमादनः, 'कृद्बहुल' (श्रीसिद्ध० अ० ५ पा० १ सू० २ ) मिति वचनात् कर्त्तर्यनट्प्रत्ययः, 'घञ्युपसर्गस्य वे' (श्रीसिद्ध० अ० ३ पा० २ सू० ८६) त्यत्र बहुलाधिकारादतिशायितादिवत् मकाराकारस्य दीर्घत्वमिति, गन्धमादननामा चात्र देवो महर्द्धिकः परिवसति, तेन तद्योगादिति नाम, अन्यत् सर्व प्राग्वत् ॥ अथ यासामुपयोगित्वेन गन्धमादनो निरूपितस्ता उत्तरकुरूः निरूपयति- 'कहि ण' मित्यादि, क्व भदन्त ! महाविदेहे वर्षे | उत्तरकुरवो नाम्ना कुरवः प्रज्ञप्ताः ?, गौतम ! मन्दरस्य पर्वतस्योत्तरतो नीलवतो वर्षधरपर्वतस्य दक्षिणतो गन्धमा|दनस्य वक्षस्कारपर्वतस्य पूर्वतो वक्ष्यमाणस्वरूपस्य माल्यवतः पश्चिमतः अत्रान्तरे उत्तरकुरवो नाम्ना कुरवः प्रज्ञप्ताः, प्राकूपश्चिमायता उत्तरदक्षिणाविस्तीर्णाः अर्द्धचन्द्राकारा एकादशयोजनसहस्राण्यष्टौ शतानि द्वाचत्वारिंशदधिकानि द्वौ चैकोनविंशतिभागौ योजनस्य विष्कम्भेन, अत्रोपपत्तिर्यथा महाविदेहविष्कम्भात् ३३६८४ कला ४ इत्येवंरूपात् | मेरुविष्कम्भेऽपनीते शेषस्यार्द्धं कृते उक्ताङ्कराशिः स्यात् ननु वर्षवर्षधरादीनां क्रमव्यवस्था प्रज्ञापकापेक्षयाऽस्ति यथा प्रज्ञापकासन्नं भरतं ततो हिमवानित्यादि, ततो विदेहकथनानन्तरं क्रमप्राप्ता देवकुरुर्विमुच्य कथमुत्तरकुरूणां निरूपणं १, उच्यते, चतुर्दिग्मुखे विदेहे प्रायः सर्वं प्रादक्षिण्येन व्यवस्थाप्यमानं समये श्रूयते, तेन प्रथमत उत्तरकुरुकथनं भरतपार्श्वस्थौ विद्युत्प्रभसौमनसौ विहाय गन्धमादनमाल्यवद्वक्षस्कारप्ररूपणं भरतासन्नविजयान् विहाय कच्छमहाकच्छादि विजयकथनं चेति, अथैतासां जीवामाह - 'तीसे' इत्यादि, तासामुत्तरकुरूणां सूत्रे एकवचनं प्राकृतत्वात्, For Private & Personal Use Only ४ वक्षस्कारे गन्धमाद नः सू.८६ उत्तरकुरवः सू. ८७ ॥३१५॥ w.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy