SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ तथा पश्चमात्. स्फटिककूटात् कथं दक्षिणपूर्वस्यां चतुर्थ कूटं न सङ्गच्छते?, उच्यते, पर्वतस्य वक्रत्वेन चतुर्थकटत एव दक्षिणपूर्वा प्रति वलनात् पञ्चमाच्चतुर्थ दक्षिणस्यामिति, शेषाणि स्फटिककूटादीनि श्रीणि उत्तरदक्षिणश्रेणिव्यवस्थया स्थितानि, कोऽर्थः ?-पंचमं चतुर्थस्योत्तरतः षष्ठस्य दक्षिणतः षष्ठं पंचमस्योत्तरतः सप्तमस्य दक्षि-19 णतः सप्तमं षष्ठस्योत्तरत इति परस्परमुत्तरदक्षिणभाव इति, अत्र पंचशतयोजन विस्ताराण्यपि कूटानि यत् क्रमहीयमानेऽपि प्रस्तुतगिरिक्षेत्रे मान्ति तत्र सहस्राङ्ककूटरीतिज्ञेया, अथैषामेवाधिष्ठातृस्वरूपं निरूपयति-'फलिहलोहिअक्खे'इत्यादि, स्फटिककूटलोहिताक्षकूटयोः पंचमषष्ठयो गङ्कराभोगवत्यौ द्वे देवते-दिक्कुमायौं वसतः, शेषेषु कूटसदृशनामका देवाः, षट्स्वपि प्रासादावतंसकाः स्वस्वाधिपतिवासयोग्याः, एषां च राजधान्योऽसङ्ख्याततमे जम्बूद्वीपे विदिक्षु उत्तरपश्चिमासु । सम्प्रति नामार्थ पिपृच्छिषुराह-से केणटेणं इत्यादि प्रश्नसूत्रं सुगम, उत्तरसूत्रे गन्धमादनस्य वक्षस्कारपर्वतस्य गन्धः स यथा नाम कोष्ठपुटानां यावत्पदात् तगरपुटादीनां. संग्रहः पिष्यमाणानां वासंचयॆमानानां उत्कीर्यमाणानां वा विकीर्यमाणानां वा परिभुज्यमानानां वा यावत्पदात् भाण्डात् भाण्डान्तरं वा संहियमाणानामिति, उदारा-मनोज्ञाः यावत्पदात् गन्धा इति कर्तृपदं, अभिनिःस्रवन्ति, एवमुक्त शिष्यः पृच्छतिभवेदेतद्रूपो गन्धमादनस्य गन्ध इति !, भगवानाह-नायमर्थः समर्थः, गन्धमादनस्य इतो-भवदुक्का गन्धादिष्टतरक एव यावत्करणात् कान्ततरक एवेत्यादिपदग्रहः, निगमनवाक्ये तेनार्थेन गौतम एवमुच्यते, गन्धेन स्वयं माद्यतीव Jain Education Intel For Private & Personal Use Only jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy