________________
द्वीपशान्तिचन्द्री- या वृत्तिः
॥३१४॥
भाग्यमावेदयति-'गन्धमायण'इत्यादि, गन्धमादनस्य वक्षस्कारपर्वतस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, अत्र वक्षस्कारे यावत्पदाताठ्याद्रिशिखरतलवर्णकगतं सर्वे बोध्यं । सम्प्रत्यत्र कूटवक्तव्यतामाह-गन्धमायण'इत्यादि, व्यक्तं, नवरं । गन्धमादस्फटिककूटं स्फटिकरत्नमयत्वात् लोहिताक्षकूटं लोहितरत्नवर्णत्वात् , आनन्दनाम्नो देवस्य कूटमानन्दकूटं । ननु यथा नः सू.८६ वैताब्यादिषु सिद्धायतनादिकूटव्यवस्था पूर्वापरायतत्वेन तद्वदत्रापि उत कश्चिद्विशेष इत्याह-'कहि णं भन्ते!'इत्यादि,
उत्तरकुरवः व्यक्तं, नवरं यथा वैताढ्यादिषु सिद्धायतनकूटं समुद्रासन्नं पूर्वेण ततः क्रमेण शेषाणि स्थितानि तथाऽत्र मन्दरासन्नं
सू.८७ सिद्धायतनकूट मन्दरादुत्तरपश्चिमायां वायव्यां दिशि गन्धमादनकूटस्य तु दक्षिणपूर्वस्यां-आग्नेय्यामस्ति, यदेव क्षुद्र-९॥ हिमवति सिद्धायतनकूटस्य प्रमाणं तदेवतेषां सर्वेषां सिद्धायतनादिकृटानां भणितव्यं, अर्थाद् वर्णनमपि तद्वदेवेति, व्यवस्था तु शेषकूटानामत्र भिन्नप्रकारेणेति मनसिकृत्याह-एवं चेव'इत्यादि, एवं चेवेत्येवं-सिद्धायतनानुसारेण विदिक्षु-वायव्यकोणेषु त्रीणि कूटानि सिद्धायतनादीनि भणितव्यानि, उक्तवक्तव्यानां मिश्रितनिर्देशस्तु एवं चत्तारिवि दारा भाणिअबा' इति सूत्र विवरणोक्तयुक्त्या समाधेयः, अयमर्थः-मेरुत उत्तरपश्चिमायां सिद्धायतनकूट, तस्मादुत्तरपश्चिमायां गन्धमादनकूटं तस्माच्च गन्धिलावतीकूटमुत्तरपश्चिमायामिति, अत्र तिस्रो वायव्यो दिशः समुदिता विवक्षिता इति बहुत्वेन निर्देशः, चतुर्थमुत्तरकुरुकूटं तृतीयस्य गन्धिलावतीकूटस्योत्तरपश्चिमायां पञ्चमस्य स्फटिककूटस्थ दक्षिणतः, ननु यथा तृतीवाद् गन्धिलावतीकूटाच्चतुर्थ उत्तरकुरुकूटमुत्तरपश्चिमायां चतुर्थाच तृतीयं दक्षिणपूर्वखां
॥३
10
Jain Education in
For Private Personal Use Only
TO
jainelibrary.org