SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ - 'कहि ण'मित्यादि, क भदन्त ! महाविदेहे वर्षे गन्धमादनो नाम वक्षसि-मध्ये स्वगोप्य क्षेत्रं द्वौ संभूय कुर्वन्तीति वक्षस्काराः, तज्जातीयोऽयमिति वक्षस्कारपर्वतो गजदन्तापरपर्यायः प्रज्ञप्तः, गौतम ! नीलवन्नाम्नो वर्षधरपर्वतस्य दक्षिणभागेन मन्दरस्य पर्वतस्य-मेरोरुत्तरपश्चिमेन-उत्तरस्याः पश्चिमायाश्च अन्तरालवर्तिना दिग्विभागेन वायव्यकोणे इत्यर्थः, गन्धिलावत्याः-शीतोदोत्तरकुलवर्तिनोऽष्टमविजयस्य पूर्वेण उत्तरकुरूणां-सर्वोत्कृष्टभोगभूमिक्षेत्रस्य पश्चिमेन अत्रान्तरे महाविदेहे वर्षे गन्धमादनो नाम वक्षस्कारपर्वतः प्रज्ञप्तः, उत्तरदक्षिणयोरायतः प्राचीनप्रतीचीनयोः-पूर्वपश्चिमयोर्दिशोः विस्तीर्णः, त्रिंशयोजनसहस्राणि द्वे च नवोत्तरे योजनशते षट् च एकोनविंशतिभागान् योजनस्याया| मेन, अत्र यद्यपि वर्षधराद्रिसम्बद्धमूलानां वक्षस्कारगिरीणां साधिकैकादशाष्टशतद्विचत्वारिंशद्योजनप्रमाणकुरुक्षेत्रान्तर्वर्त्तिनामेतावानायामो न सम्पद्यते तथाऽप्येषां वक्रभावपरिणतत्वेन बहुतरक्षेत्रावगाहित्वात् सम्भवतीति, नीलवर्षधरसमीपे चत्वारि योजनशतानि ऊवोच्चत्वेन चत्वारि गव्यूतशतानि उद्वेधेन पञ्चयोजनशतानि विष्कम्भेन, तदनन्तरं मात्रया २-क्रमेण क्रमेणोत्सेधोद्वेधयोः-उच्चत्वोण्डत्वयोः परिवृद्ध्या परिवर्द्धमानः२ विष्कम्भपरिहाण्या परिहीयमाणः २ मन्दरपर्वतस्य-मेरोरन्ते-समीपे पश्चयोजनशतान्यूवोच्चत्वेन पञ्चगव्यूतिशतानि उद्वेधेन अंगुलस्याससबभागं विष्कम्भेन प्रज्ञप्तः, गजदन्तस्य यत्संस्थान-प्रारम्भे नीचत्वमन्ते उच्चत्वमित्येवंरूपं तेन संस्थितः, सर्वा-18 | त्मना रत्नमयः, श्रीउमाखातिवाचककृतजम्बूद्वीपसमासप्रकरणे तु कनकमय इति, शेष प्राग्वत्, अथास्य भूमिसौ Jain Education a l For Private & Personal Use Only S ww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy