SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte | प्रवालै:- पल्लवाङ्कुरैः शोभितानि वराङ्कुराणि वराङ्कुरोपेतानि अग्रशिखराणि येषां ते तथा, इह चाङ्कुरमवालयोः कालकतावस्थाविशेषाद्विशेषो भावनीय इति, 'णिच्चं कुसुमिया' इत्यादिकं 'वडेंसयधरा' इत्यन्तं सूत्रं पूर्ववद् व्याख्येयं, तथा शुकबर्हिणमदनशलाकाकोकिलकोरक भृङ्गारककोण्डलक जीवजीवकनन्दीमुखकपिलपिङ्गलाक्षक कारण्डव चक्रवाककलहंससार| साख्यानामनेकेषां शकुनिगणानां - पक्षिकुलानां मिथुनैः - स्त्रीपुंसयुग्मैर्विरचितं शब्दोशतिकं च- उन्नतशब्दकं मधुरस्वरं च नादितं -लपितं येषु ते तथा, अत एव सुरम्या - अतिमनोज्ञाः, अत्र शुकाः - कीराः बर्हिणा मयूराः मदनशलाकाः - सारिकाः कोकिल चक्रवाककलहंससारसाः प्रतीताः, शेषास्तु जीवविशेषाः लोकतोऽवसेयाः, संपिंडिता - एकत्र पिण्डीभूता दृप्ता -- मदोन्मत्ततया दर्पामाता भ्रमरमधुकरीणां पहकराः - संघाताः यत्र ते तथा, तथा परिलीयमाना - अन्यत | आगत्यागत्याश्रयन्तो मत्ताः षट्पदाः कुसुमासवलोला :- किंजल्क पानलम्पटा मधुरं गुमगुमायमाना गुञ्जन्तश्व-शब्द| विशेषं विदधाना देशभागेषु येषां ते तथा, गमकत्वादेवमपि समासः, ततो भूयः पूर्वपदेन सह विशेषणसमासः, तथा अभ्यन्तराणि - अन्तर्वसनि पुष्पफलानि येषां ते तथा तथा बहिः पत्रैः छन्ना- व्याप्ताः, तथा पत्रैश्च पुष्पैश्च छन्न| परिच्छना - एकार्थिकशब्दद्वयोपादानात् अत्यन्तमाच्छादिताः, तथा नीरोगका रोगवर्जिता वृक्षचिकित्साशास्त्रेषु येषां प्रतिक्रिया तैः रोगैः स्वत एव विरहिता इत्यर्थः तथाsकण्टकाः न तेषु मध्ये वदर्यादयः सन्तीतिभावः, तथा स्वादूनि फलानि येषां ते स्वादुफलाः, स्निग्धफला इत्यपि कचित्, नानाविधैर्गुच्छे :- वृन्ताकीप्रभृतिभिर्गुल्मैः नवमालिकादिभि For Private & Personal Use Only wjainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy