________________
श्रीजम्बू-18
जाताना च मनुष्याणा पञ्चमगतिगामित्वं न स्यात् , अथास्य नामार्थ प्रश्रयन्नाह–से केणटेण'मित्यादि, प्राग्वत् , ४वक्षस्कारे द्वीपशाप्रश्नसूत्रं सुगम, उत्तरसूत्रे-गौतम! महाविदेहो वर्ष भरतैरावतहैमवतहैरण्यहरिवर्षरम्यकवर्षेभ्यः आयामविष्कम्भसंस्थान
महाविहेद न्तिचन्द्री
वर्णनं परिणाहेन, समाहारादेकवद्भावः, तत्रायामादित्रिकं प्रतीतं, परिणाहः-परिधिः, अत्र च व्यस्ततया विशेषणनिर्देशेऽपि या वृत्तिः
सू. ८५ योजना यथासम्भवं भवतीत्यायामेन महत्तरक एव लक्षप्रमाणजीवाकत्वात्, तथा विष्कम्भेन विस्तीर्णतरक एव । ॥३१२॥ साधिकचतुरशीतिषट्शताधिकत्रयस्त्रिंशद्योजनसहस्रप्रमाणत्वात् , तथा संस्थानेन पल्यङ्करूपेण विपुलतरक एव पार्श्वद्व
येऽपीपयोस्तुल्यप्रमाणत्वात्, हैमवतादीनां पल्यङ्कसंस्थितत्वेऽपि पूर्वजगतीकोणानां संवृतत्वेन पूर्वापरेषयोर्वेषम्यादिति, तथा परिणाहेन सुप्रमाणतरक एव, एतद्धनुःपृष्ठस्य जम्बूद्वीपपरिध्यर्द्धमानत्वादिति, अत एव महान्-अतिशयेन विकृप्टो-गरीयान् देहः-शरीरमाभोग इतियावत् येषां ते महाविदेहाः, अथवा महान्-अतिशयेन विकृष्टो-गरीयान् देहःशरीरं कलेवरं येषां ते तथा, ईदृशास्तत्रत्या मनुष्याः, तथाहि-तत्र विजयेषु सर्वदा पञ्चधनुःशतोच्छ्रया देवकुरूत्तरकुरुषु त्रिगव्यूतोच्छ्रयाः ततो महाविदेहमनुष्ययोगादिदमपि क्षेत्रं महाविदेहाः, महाविदेहश्च शब्दः स्वभावाद् बहुवचनान्त एव, एतच्च प्रागेवोतं, ततो बहुवचनेन व्यवहियते, दृश्यते च क्वचिदेकवचनान्तोऽपि, तदपि प्रमाणं, पूर्वमहर्षिभिस्तथाप्रयोगकरणात् , अथवा महाविदेहनामा देवोऽत्राधिपत्यं परिपालयति, तेन तद्योगादपि महाविदेह इति, | शेषं प्राग्वत् ॥ सम्प्रत्युत्तरकुरूर्वक्तुकामस्तदुपयोगित्वेन प्रथमं गन्धमादनवक्षस्कारगिरिप्रश्नमाह
PRECe
Jain Education Intel
For Private Porn Use Only
KOM.jainelibrary.org AT