________________
हस्राणि शतमेकं त्रयोदशाधिकं योजन १५८११३, यत्त्वेकं योजनं शेषं तत्कलाः क्रियन्ते लब्धाः एकोनविंशतिः क्रोशत्रये च लब्धाः सपादाश्चतुर्दश कलाः उभयमीलने जाताः सपादास्त्रयस्त्रिंशत् कलाः सासामर्दो लब्धाः सार्धाः षोडश कलाः, यश्च कलाया अष्टमो भागोऽधिक उद्धरति यानि च धनुषामः लब्धानि चतुःषष्टिर्धनूंषि यानि च | सार्द्धत्रयोदशांगुलानामढे पादोनानि सप्तांगुलानि तदेतत्सर्वमल्पत्वान्न विवक्षितमिति ॥ अधुना विदेहवर्षस्य भेदान्निरूपयन्नाह-'महाविदेहे ण'मित्यादि, महाविदेहं वर्ष चतुर्विधं-चतुष्प्रकार पूर्व विदेहाद्यन्यतरस्य महाविदेहत्वेन व्यप-| दिश्यमानत्वात् , अत एव चतुर्यु-पूर्वापरविदेहदेवकुरूत्तरकुरुरूपेषु क्षेत्र विशेषेषु प्रत्यवतार:-समवतारो विचारणीयत्वेन यस्य तत्तथा, चतुर्विधस्य पर्यायो वाऽयं, तत्र पूर्वविदेहो यो मेरोर्जम्बूद्वीपगतः प्राग्विदेहः, एवं पश्चिमतः सोऽप-1 रविदेहः दक्षिणतो देवकुरुनामा विदेहः उत्तरतस्तु उत्तरकुरुनामा विदेहः, ननु पूर्वापरविदेहयोः समानक्षेत्रामुभाषकत्वेन महाविदेहव्यपदेश्यताऽस्तु, देवकुरुत्तरकुरूणां स्वकर्मभूमिकत्वेन कथं महाविदेहत्वेन व्यपदेशः, उच्यते, प्रस्तुतक्षेत्रयोर्भरताद्यपेक्षवा महाभोगत्वात् महाकायमनुष्ययोगित्वान्महाविदेहदेवाधिष्ठेयत्वाच महाविदेहवाच्यता समुचितेवेति सर्व सुस्थं । अथास्य स्वरूपं वर्णयितुमाह-'महाविदेह'इत्यादि, प्राग्वत्, अत्र यावत्करणात् 'आलिंगपुक्खरे इथा जाव णाणाविहपञ्चवण्णेहिं मणीहि तणेहि अ उवसोभिए'इति, सम्बत्वत्र मनुजस्वरूपमाह-महाविदेहे ण'|मित्यादि, प्राग्वत् , आभ्यां सूत्राभ्यामस्य कर्मभूमित्वमभाणि अन्यथा कर्षकादिवृत्तानां तृणादीनां कृत्रिमत्वं तवर्ष
Jain Education
For Pres Personal use only
Law.jainelibrary.org