________________
Jain Education
महिद्धीए जान पलिओ मट्टिइए परिवसइ, से तेणट्टेणं गोअमा ! एवं वुच्चइ - महाविदेदेहे वासे २, अदुत्तरं च णं गोअमा ! महाविदेहस्स वासस्स सासए णामधेजे पण्णत्ते, जंण कयाइ णासि ३ ( सूत्रं ८५ )
'कहि 'मित्यादि, क भदन्त । इत्यादि सूत्रं स्वयं योज्यं, नवरं महाविदेहं नाम वर्ष- चतुर्थं क्षेत्रं प्रज्ञप्तं ?, गौतम ! नीलवतो वर्षधरपर्वतस्य चतुर्थस्य क्षेत्रविभागकारिणो दक्षिणेनेत्यर्थः 'णिसहस्स' इत्यादि व्यक्तं, नवरं पल्यङ्कसंस्थानसंस्थितमायतचतुरस्रत्वात्, विस्तारेण त्रयस्त्रिंशद्योजनसहस्राणि षट् च योजनशतानि चतुरशीत्यधिकानि चतुरश्चैकोनविंशतिभागान् योजनस्य विष्कम्भेन, निषधविष्कम्भाद् द्विगुणविष्कम्भकत्वात्, अथ बाहादिसूत्रत्रयमाह'तस्स बाहा' इत्यादि, तस्य महाविदेहस्य वर्षस्य पूर्वापरभागेन बाहा प्रत्येकं त्रयस्त्रिंशद् योजनसहस्राणि सप्त च योजनशतानि सप्तषष्ट्याऽधिकानि सप्त च एकोनविंशतिभागान् योजनस्य आयामेनेति, ननु " महया धणुपढाओ डहरागं सोहिआहि धणुपठ्ठे । जं तत्थ हवइ सेसं तस्सद्धे णिद्दिसे बाहं ॥ १ ॥” इति वचनात् महतो धनुःपृष्ठाद् विदेहानां दक्षिणार्द्धस्योत्तरार्द्धस्य च सम्बन्धिनो लक्षमेकमष्टपञ्चाशत्सहस्राणि शतमेकं त्रयोदशाधिकं योजनानां षोडश च कलाः सार्द्धाः योजन १५८११३ कलाः १६ कलार्द्ध चेत्येवंपरिणामाल्लघु धनुःपृष्ठं निषधादिसम्बन्धि लक्षमेकं चतुर्विं शतिसहस्राणि त्रीणि शतानि षट्चत्वारिंशदधिकानि योजनानां नव च कला योजन १२४३४६ कला ९ इत्येवंपरिमाणं शोधय, ततश्च शेषमिदं त्रयस्त्रिंशत्सहस्राणि सप्त शतानि सप्तषष्ट्यधिकानि योजनानां सप्त च कलाः सार्द्धाः
For Private & Personal Use Only
www.jainelibrary.org