SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte किञ्चित्साधिकत्वं ज्ञेयं, द्वौ कोशौ जलादुत्थितः सर्ववज्रमयः अच्छः शेषमुक्तातिरिक्तं गङ्गाद्वीपप्रकरणो कमवसेयं, तच्च विनेयस्मारणार्थं नामतो निर्दिशति - वेदिकावनखण्डभूमिभागभवनशयनीयानि वाच्यानि, अत्र सूत्रे विभक्तिलोपः प्राकृतत्वात्, अर्थश्च शीतोदाद्वीपस्य गङ्गाद्वीपवत् भणितव्य इति । अथ यथेयं पयोधिमुपयाति तथाह -- ' तस्स णं सीओअप्पवाय' इत्यादि, तस्य शीतोदाप्रपातकुण्डस्य औत्तराहेण तोरणेन शीतोदा महानदी प्रव्यूढा सती देवकुरून् इयूती २- गच्छन्ती २, अत्र सूत्रे एकवचनं आकारान्तत्वं च प्राकृतत्वात् चित्रविचित्रकूट पर्वतौ पूर्वापरकूलव| र्त्तिनौ निषध १ देवकुरु २ सूर ३ सुलस ४ विद्युत्प्रभ ५ द्रहांश्च द्विधा विभजन्ती २ - तन्मध्ये वहन्ती २, अत्रेयं | विभागयोजना - चित्रविचित्रकूटपर्व तयोर्मध्ये वहनेन चित्रकूटं पर्वतं पूर्वतः कृत्वा विचित्रकूटं च पश्चिमतः कृत्वा | देवकुरुषु वहन्ती इति, द्रहांश्च पञ्चापि समश्रेणिवर्त्तिन एकैकरूपान् द्विभागीकरणेन वहन्तीति, अत्रान्तराले देवकुरु| वर्त्तिभिश्चतुरशीत्या सलिला सहस्रैरापूर्यमाणा २ भद्रशालवनं - मेरुप्रथमवनं इयूती २ मन्दरं पर्वतं द्वाभ्यां योजनाभ्यामसम्प्राप्ता, शीतोदामेर्वोरष्टौ क्रोशा अन्तरालमित्यर्थः; ततः पश्चिमाभिमुखी परावृत्ता सती विद्युत्प्रभं वक्षस्कारपर्वतं | नैर्ऋतको गत कुरुगोपकगिरिमधो दारयित्वा मन्दरस्य पर्वतस्य पश्चिमेनापर विदेहवर्ष - पश्चिमविदेहं द्विधा विभ जन्ती २, एकैकस्माच्चक्रवर्त्तिविजयादष्टाविंशत्या २ नदीसहस्रैरापूर्यमाणा २ तथाहि — अस्या दक्षिणकूलगत विजयाष्टके द्वे द्वे महानद्यौ गङ्गासिन्धुनाम्नी चतुर्दश २ सहस्रनदी परिवारे उत्तरकूलवर्त्तिविजयाष्टके च द्वे द्वे महानद्यौ For Private & Personal Use Only jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy