SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ ३०८ ॥ Jain Education Int 'तस्स ण' मित्यादि तस्य तिगिंछिद्रहस्य दाक्षिणात्येन तोरणेन हरिनाम्नी हरिसलिलाऽपरपर्याया महानदी प्रव्यूढा | सती सप्तयोजनसहस्राणि चत्वारि च योजनशतानि एकविंशानि - एकविंशत्यधिकानि एकं च एकोनविंशतिभागं योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा इत्यादि प्राग्वंत्, गिरिगन्तव्योपपत्तिस्तु षोडशसहस्राष्टशतद्वाचत्वारिंशद्योजन - प्रमाणान्निषधव्यासाद् द्विसहस्रयोजनप्रमाणे इदव्यासेऽपनीते शेषेऽर्द्धकृते भवतीति । निगमयन्नतिदेशसूत्रमाह'एव' मित्यादि, 'एव' मित्युक्तप्रकारेण यैव हरिकान्ताया वक्तव्यता सैव हरितोऽपि महानद्या नेतव्या, जिव्हिकाया हरि| कुण्डस्य हरिद्वीपस्य भवनस्य च तदेव प्रमाणं हरिकान्ताप्रकरणोक्तमव सेयं, अर्थोऽपि हरिद्वीपनाम्नो वाच्यः, अत्र याव - | त्पदवाच्यं साक्षालिखितं च सर्वं हरिकान्ताप्रकरण इव ज्ञेयं ॥ अथास्माद्या उत्तरेण नदी प्रवहति तामाह - ' तस्स णं तिगिंछिद्दह' इत्यादि, व्यक्तं, गिरिगन्तव्यं तु हरिन्नद्या इवावसेयं, अथास्या जिव्हिकास्वरूपमाह - 'सीओओ' इत्यादि, उत्तानार्थं, नवरमायामेन चत्वारि योजनानि, हरिन्नदीजिव्हिकाद्विगुणत्वात्, पञ्चाशद् योजनानि विष्कम्भेन हरिन्न - दीप्रवहतो द्विगुणस्य सीतोदाप्रवहस्य मातव्यत्वात् एवं बाहल्यमपि पूर्वजिव्हिकातो द्विगुणमवसेयम्, अथ कुण्ड| स्वरूपमाह - 'सीओओ णं महाणई जहिं' इत्यादि, 'एत्थ णमित्यादि, अत्र कुण्डस्य योजनसङ्ख्या हरिकुण्डतो द्वैगुण्ये - | नोपपादनीया । अथ सीतोदाद्वीप स्वरूपमाह -- ' तस्स ण'मित्यादि, अत्र शीतोदाद्वीपः आयामविष्कम्भाभ्यां चतुःषष्टियोजनानि पूर्वनदी द्वीप तो द्विगुणायामविष्कम्भत्वात्, व्यधिके द्वे शते परिक्षेपेण, अत्र सूत्रेऽनुकमपि करणवशात् For Private & Personal Use Only ४ वक्षस्कारे सनदीकतिगिंछिद्रहवर्णन सू. ८४ ॥ ३०८ ॥ jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy