SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ श्री. ५२ 'तस्स वाही' इत्यादि, 'तस्स जीवा' इत्यादि, अथ यावत्पदात् पाईणपडीणायया दुहओ लवणसमुद्दे पुट्ठा पुरथिमि - लाए लवणसमुद्दे जाव पुट्ठा इति ग्राह्यं, 'तस्स धणु' मित्यादि सर्वं पूर्वसूत्रानुसारेण व्याख्येयं । अथ निषधमेव विशे|षणैर्विशिनष्टि - 'रुअग' इत्यादि, अत्र यावत्पदात् सब्बओ समंता इति ग्राह्यं शेषं प्राग्वत् । अथास्य देवक्रीडायो|ग्यत्वं वर्णयन्नाह - - 'णिसह' इत्यादि, अत्र यावत्पदात् आलिङ्गपुष्करादिपदकदम्बकं बोध्यं । अथ इदवक्तव्यावसरः'तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्रान्तरे महानेकः तिगिंछि:- पौष्परजस्त - प्रधानो द्रहस्तिगिंछिद्रहो नाम द्रहः प्रज्ञतः, प्राकृते पुष्परजः शब्दस्य 'तिगिंछि' इति निपातः देशीशब्दो वा अन्यत् सर्वं प्रागनुसारेणेति, अथास्यातिदेशसूत्रेण सोपानादिवर्णनायाह -- 'तस्स ण' मित्यादि, तस्य - तिगिंछिद्रहस्य चतुर्दिक्षु | चत्वारि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, एवमित्थंप्रकारेण इदवर्णके क्रियमाणे यावच्छन्दोऽत्र कार्त्सवाच्यव्ययं तेन यावत्परिपूर्णा यैव महापद्मद्रहस्य वक्तव्यता आयामविष्कम्भविहीना सैव तिििछद्रहस्य वक्तव्यता, एतदेव व्यक्तत्या आचष्टे - 'तं चेव' इत्यादि, तदेव - महापद्मद्रहगतमेव पद्मानां - धृतिदेवीकमलानां प्रमाणं- एककोटिविंशतिलक्षपञ्चाशत्सहस्रैकशतविंशतिरूपं, अन्यथाऽत्र पद्मानामायामविष्कम्भरूपप्रमाणस्य महापद्मद्रहगतपद्मभ्यो द्विगुणत्वेन विरोधापातात् द्रहस्य च प्रमाणमुद्वेधरूपं बोध्यं, आयामविष्कम्भयोः पृथगुक्तत्वादिति, अर्थः तिगिंछिद्रहस्य वाच्यः, For Private & Personal Use Only jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy