________________
श्रीजम्बू
मुखमायान्तीत्यर्थः शब्दापातनामानं वृत्तवैताढ्यपर्वतमर्द्धयोजनेन क्रोशद्वयेनासम्प्राप्ता-असंस्पृष्टा दूरस्थितेत्यर्थः ४वक्षस्कारे बीपशा
महाहिमवन्तिचन्द्रीपूर्वाभिमुखी आवृत्ता सती हैमवतं वर्ष द्विधा विभजन्ती २-द्विभागं कुर्वती२ अष्टाविंशत्या सलिलासहस्रैः समग्रा-पूर्णा,
ति इंद्रादि ॥ वृत्तिः । भरतनदीतो द्विगुणनदीपरिवारत्वात् , अधोभागे जगतीं-जम्बूद्वीपकोट्टं दारयित्वा पूर्वभागेन लवणसभुद्रं समुपसर्पति,
प्रविशतीत्यर्थः, अथ लाघवार्थ रोहितांशातिदेशेन रोहितावक्तव्यमाह-रोहिआ ण'न्ति, अतिदेशसूत्रत्वादेव प्राग्वत् । ॥३०३॥
| अथास्मादुत्तरगामिनीयं नदी कावतरतीत्याशंक्याह-'तस्स ण'मिति व्यक्तं, 'हरिकंता' इत्यादि कण्ठ्यं, अत्र 'सबरय
णामईति पाठो बहादर्शदृष्टोऽपि लिपिप्रमादापतित एव सम्भाव्यते, बृहत्क्षेत्रविचारादिषु सर्वासां जिहिकानां ॥ वज्रमयत्वेनैव भणनात् , जलाशयानां प्रायो वज्रमयत्वेनैवोपपत्तेश्च, 'हरिकता ण'मित्यादि, व्यक्तं, नवरं हरिकांता
प्रपातकुण्ड द्वे योजनशते चत्वारिंशदधिके आयामविष्कम्भाभ्यां सप्त योजनशतानि एकोनषष्टानि-एकोनषष्ट्यधिकानि परिधिना इति, 'तस्स ण'मित्यादि, सूत्रत्रयं प्राक् सूत्रानुसारेण बोद्धव्यं, नवरं विकटापातिनं वृत्तवैताढ्यं योजनेनासम्प्राप्ता पश्चिमेनावृत्ता सती हरिवर्ष नाम क्षेत्रं वक्ष्यमाणस्वरूपं द्विधा विभजमाना २ षट्पञ्चाशता नदीसहस्रैः
॥३०॥ समग्रा-परिपूर्णा, हैमवतक्षेत्रनदीतो द्विगुणनदीपरिवारत्वात् , पश्चिमेन भागेन लवणोदधिमुपैति । सम्प्रत्यस्याः प्रवा
हादि कियन्मानमित्याह-'हरिकता'इत्यादि, हरिकान्ता महानदी प्रवहे-द्रहनिर्गमे पञ्चविंशतियोजनानि विष्क18म्भेन अर्द्धयोजनमुढेधेन तदनन्तरं च मात्रया २-क्रमेण २ प्रतियोजनं समुदितयोरुभयोः पार्श्वयोः चत्वारिंशद्धनु-18
Jain Education inter-IN
For Private Personal Use Only
A
jainelibrary.org
12