________________
Jain Education Inte
त्यादि, तस्य महापद्मद्रहस्य दाक्षिणात्येन तोरणेन रोहिता महानदी प्रव्यूढा -निर्गता सती षोडश पश्चोत्तराणि योजनशतानि पञ्च चैकोनविंशतिभागान् योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा महता घटमुखप्रवृत्तिकेन मुक्तावलिहारसं| स्थितेन सातिरेकद्वियोजनशतिकेन, सातिरेकत्वं च रोहिताप्रपातकुण्डोद्वेधापेक्षया बोध्यं प्रपातेन प्रपतति, षोडशेत्यादि| सङ्ख्यानयनं तु चतुःसहस्रद्विशतदशयोजनतदे को न विंशतिभागात्मक [ भागदश ] काद्भिरिव्यासात् सहस्रयोजनात्मके द्रहव्यासेऽपनीते सत्यर्द्धाकृताद्भवति, अन्यत् सर्व रोहितांशागमेन वाच्यं, अथ सा यतः प्रपतति तदास्पदं दर्शयति'रोहिआ ण 'मित्यादि, प्राग्वत्, अथ यत्र प्रपतति तदाह - 'रोहिआ ण' मित्यादि, प्राग्व्याख्यातप्रायं, नवरं सर्विंशतिकं | योजनशतं गङ्गाप्रपातकुण्डतो द्विगुणायामविष्कम्भत्वात्, त्रीणि योजनशतानि अशीत्यधिकानि किञ्चिद्विशेषोनानि, ऊनत्वं करणेन यो० ३७९ क्रोशः १ कियद्धनुरधिकस्तेन किञ्चिदूनाऽशीतिरुक्ता इत्यर्थः, परिक्षेपेणेति । अधुनाऽस्य | द्वीपवक्तव्यमाह - 'तस्स ण' मित्यादि व्यक्तं, नवरं गङ्गाद्वीपतो द्विगुणायामविष्कम्भत्वात् षोडश योजनानि रोहिता| द्वीपप्रमाणमित्यर्थः, ' से ण' मित्यादि, सुगमं, 'रोहिअदीव' इत्यादि, सुगमं, नवरं शेषं विष्कम्भादिकं प्रमाणं तदेव, " कोऽर्थः :अर्द्धक्रोशं विष्कम्भेन देशोनक्रोशमुच्चत्वेनेति, चशब्दाद्रोहितादेवी शयनादिवर्णकोऽपि, अर्थश्च 'से केणणं भन्ते ! | रोहिअदीवे' इत्यादि, सूत्रावगम्यः, सम्प्रति यथेयं लवणगामिनी तथाऽऽह - ' तस्से' त्यादि, तस्य - रोहिताप्रपातकुण्डस्य दाक्षिणात्येन तोरणेन द्वारेणेत्यर्थः रोहिता महानदी प्रव्यूढा - निर्गता सती हैमवतं वर्ष आगच्छन्ती २ हैमवत क्षेत्राभि
For Private & Personal Use Only
w.jainelibrary.org