SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ जालान्तरगतरत्लपञ्जरै-रत्नसमुदायविशेषैः उन्मीलित इव उन्मिषितलोचन इवेत्यर्थः, माणकनकमयस्तूपिकाक इति प्रतीतं, विकसितानि - विकस्वराणि शतपत्राणि पुण्डरीकाणि च - कमलविशेषाः द्वारादिषु तैश्चित्रो - नानारूप आश्चर्यवान् वा, नानामणिमयदामालङ्कृत इति व्यक्तं, अन्तर्बहिश्च श्लक्ष्णो - मसृणः स्निग्ध इत्यर्थः, तपनीयस्य - रक्तसुवर्णस्य रुचिरा या वालुका - कणिकास्तासां प्रस्तटः - प्रतरः प्राङ्गणेषु यस्य स तथा शेषं पूर्ववत्, 'तस्स ण' मित्यादि, व्यक्तं, अथास्य | नामान्वर्थं व्याचिख्यासुराह -- ' से केणट्ठे 'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते - क्षुद्रहिमवत्कूटं २१, गौतम ! क्षुद्र हिमवतामा देवो महर्द्धिको यावत् अत्र परिवसति तेन 'क्षुद्र हिमवन्तकूट' मिति क्षुद्र हिमवत्कूटं, अत्र च सूत्रेऽह - ष्टमपि 'से तेणणं चुल्लहिमवन्तकूडे २' इत्येतद्रूपं सूत्रं बोध्यं, अन्वर्थोपपत्तिश्चात्र दक्षिणार्द्ध भरतकूटस्येव ज्ञेयेति । अथास्य राजधानीवक्तव्यमाह - 'कहि णमित्यादि, उत्तानार्थ, क्षुल्लहिमवती क्षुद्रहिमवती वा राजधानी 'एव'मित्युक्तप्रकारेण यथौचित्येनेति, 'एव' मित्यादि, एवमिति - क्षुद्र हिमवत् कूट न्यायेनावशेषाणामपि भरतकूटादीनां वक्तव्यता | नेतव्या, आयामविष्कम्भपरिक्षेपाः अत्रोपलक्षणादुच्चत्वमपि तथा प्रासादास्तथैव, देवताः अत्र देवताशब्दो देवजातिवाची तेन भरतादयो देवा इलादेवीप्रमुखा देव्यश्च ततो द्वन्द्वे ताः, तथा सिंहासनं परिवारोऽर्थश्च स्वस्वनामसम्बन्धी | तथा देवानां देवीनां च राजधान्यो नेतव्या इति, चतुर्षु क्षुल्लहिमवदादिकूटेषु देवा अधिपाः शेषेषु देवता - देव्यः, तत्र | इलादेवी सुरादेव्यौ षट्पञ्चाशद्दिकुकुमारीगणान्तर्वर्त्तिन्यों ज्ञेये एषां च कूटानां व्यवस्था पूर्वं २ पूर्वस्यामुत्तरमुत्तरम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy