________________
द्विशेषाधिकानि किंचिदधिकानीत्यर्थः, मध्ये एक योजनसहनं एक षडशीत्यधिक योजनशतं किंचिद्विशेषोनं किंचिदूनमित्यर्थः, अयं भावः-एकं सहस्रमेकं शतं पञ्चाशीतिर्योजनानि पूर्णानि शेषं च क्रोशत्रिकं धनुषामष्टशतानि त्रयो|विंशत्यधिकानि इति किंचित्पडशीतितमं योजनं विवक्षितमिति, तथा उपरि सप्त योजनशतानि एकनवत्यधिकानि किंचिदूनानि परिक्षेपेण, अत्राप्ययं भावः-सप्त शतानि नवतिर्योजनानि पूर्णानि, शेष कोशद्विकं धनुष सप्त शतानि पंचविंशत्यधिकानीति किंचिद्विशेषोनं एकनवतितमं योजनं विवक्षितं, परिक्षेपेणेति सर्वत्र ग्राह्यं, शेष स्पष्टं ॥ अथात्र पद्मवरवेदिकाद्याह-से 'मित्यादि प्रकटं, अत्र यदस्ति तत्कथनायोपक्रमते-सिद्धाययण'मित्यादि, निमदसिद्धं, | नवरं प्रथमयावत्पदेन वैताट्यगतसिद्धायतनकूटस्येवात्र वर्णको ग्राह्यः, द्वितीयेन तद्गतसिद्धायतनादिवर्णक इति ॥ अथात्रैव क्षुद्रहिमवगिरिकूटवक्तव्यमाह-'कहि ण'मित्यादि, क्व भदन्त ! क्षुद्रहिमवति वर्षधरपर्वते क्षुद्रहिमवत्कूट नाम कूटं प्रज्ञप्तम्', 'गौतमे'त्यादि उत्तरसूत्रं प्राग्वत्, नवरं 'एवं जो चेवे'त्यादि अतिदेशसूत्रे 'एवं'मित्युक्तप्रकारेण शाय एव सिद्धायतनकूटस्योच्चत्वविष्कम्भाभ्यां युक्तः परिक्षेपः उच्चत्वविष्कम्भपरिक्षेपः, मध्यपदलोपी समासः, स एव इहापि | हिमवत्कूटे बोध्य इत्यर्थः, इदं च वचनं उपलक्षणभूतं तेन पद्मवरवेदिकादिवर्णनं समभूमिभागवर्णनं च ज्ञेयं, कियत्पर्यन्तमित्याह-यावद्वहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्रान्तरे महानेकः प्रासादावतंसकः प्रज्ञप्तः, प्रासादानां-आयामाद्विगुणोच्छ्रितवास्तुविशेषाणामवतंसक इव-शेखरक इव प्रासादावतंसकःप्रधानप्रासाद इत्यर्थः,सच
Jain Education
ISI
For Private sPersonal use Only
Thainelibrary.org