________________
श्रीम्बू. ५०
द्रहनिर्गततृतीयनदीस्वरूपमाह - 'तस्स ण' मित्यादि, व्यक्त नवरं द्वे षट्सप्तत्यधिके योजनशते पट् च एकोनविंशतिभागान् योजनस्य एतावतीं भुवं उत्तराभिमुखी - हैमवतक्षेत्राभिमुखी पर्वतेन गत्वा, अत्रोपपत्तिः - हिमवद्व्यासाद्रहव्यासेऽपनीते शेषहिमवद्व्यासेऽर्द्धकृते एतावत एव लाभात् ननु गङ्गायां दक्षिणाभिमुखं गिरिगमनं पश्च योजनशतानि २३ योजनानि कलात्रिकं च समधिकमिति, अस्यास्तु षट्सप्तत्यधिके द्वे शते षट् च कलाः किमित्येतावदन्तरं १, उच्यते, गङ्गायाः गिरिमध्यवर्त्तिना पूर्वदिक्तोरणेन निर्गतायाः पञ्चशतयोजनपूर्वाभिमुखगमनानन्तरं दक्षि | णादिग्गामिन्याः स्वव्यासरहितगिरिव्यासार्द्धगामित्वं, एवं सिन्ध्वा अपि पञ्चशतयोजनपश्चिमाभिमुखगमनादनु, अस्या| स्तु उत्तरदिक् तोरणेन निर्गतायाः उत्तरगामिन्या द्रहव्यास शुद्ध गिरिव्यासार्द्धगामित्वमिति भेदः । अथास्या जिव्हि - कामाह - 'रोहिअं' इत्यादि, व्यक्तं, नवरं आयामे योजनंविष्कम्भमानेऽर्द्धत्रयोदशानि योजनानि - सार्द्धद्वादशयोज - | नानि बाहल्ये क्रोर्श, गङ्गाजिव्हिकाया अस्या द्विगुणत्वात् । अथ कुण्डस्वरूपमाह - 'रोहिअंसा' इत्यादि, प्रायः प्रकटार्थं, परमायामविष्कम्भयोविंशत्यधिकं, गङ्गाप्रपातकुण्डादस्य द्विगुणत्वात्, अथात्र द्वीपमाह - 'तस्स ण' मित्यादि, प्रकटार्थ, 'से केणद्वेणं भन्ते ! एवं बुच्चइ रोहिअंसादीवे २' इत्याद्यभिलापेन ज्ञेयः, सम्प्रत्यस्या येन तोरणेन निर्गमो यस्य च क्षेत्रस्य स्पर्शना यात्रांश्च नदीपरिवारो यत्र च संक्रमस्तथाऽऽह - ' तस्स ण' मित्यादि, तस्य - रोहितांशाप्रपातकु|ण्डस्य औतराहेण तोरणेन रोहितांशा महानदी प्रव्यूढा-निर्गता सती हैमवतं वर्ष इयूती २ - गच्छन्ती २ चतुर्दशभिः
For Private & Personal Use Only
wjainelibrary.org