________________
शिक्षेत्रसमासवृत्तौ पद्मदहतोरणनिर्गमपरत्वेनैव व्याख्यानात्, एवमुद्वेधेऽपि ज्ञेयं, मात्रया २-क्रमेण २ प्रतियोजन |
समुदितयोरुभयोः पार्वयोर्धनुर्दशकवृद्ध्या प्रतिपावं धनुःपञ्चकवृद्ध्येत्यर्थः परिवर्द्धमाना २ मुखे-समुद्रप्रवेशे द्वापष्टिं योजनानि अर्द्धयोजनं च विष्कम्भेन, प्रवहमानान्मुखमानस्य दशगुणत्वात् , सक्रोशं योजनमुद्वेधेन सार्द्धद्वाषष्टियोजनप्रमाणमुखव्यासस्य पञ्चाशत्तमभागे एतावत एव लाभात् , उभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां वनखण्डाभ्यां च | सम्परिक्षिप्ता गङ्गेत्यर्थः, प्रतियोजनधनुर्दशकवृद्धिस्त्वेयम्-मुखव्यासात् प्रवहव्यासेऽपनीतेऽवशिष्टे धनूरूपे कृते सरिदायामेन भक्के लब्धं इष्टप्रदेशगतयोजनसङ्ख्यया गुण्यते यावत् स्यात्तावत्युभयपार्श्वयोवृद्धिर्वाच्या, तथाहि-गङ्गायाः प्रवहे व्यासः योजन ६ क्रोश १ मुखे तु योजन ६२ क्रोश २, तत्र मुखव्यासात् प्रवहव्यासेऽपनीते जातं योजन ५६ क्रोश १, योजनानां च क्रोशकरणाय चतुभिर्गुणने उपरितनैकक्रोशप्रक्षेपे च जातः २२५ क्रोशे च धनुषां सहस्रद्वयमिति सहस्रद्वयेन गुण्यन्ते जातानि धनूंषि ४५००००, ततः पञ्चचत्वारिंशता सहस्रर्भज्यन्ते लब्धानि १० धनूंषि एकेन गुण्यन्ते जातानि १०, 'एकेन गुणितं तदेव भवतीति न्यायात् , एतावती च समुदितयोरुभयोः पार्श्वयोः प्रवहादेक
१ यत्तु 'छज्जोयण सकोस'मिति क्षेत्रसमासगाथा व्याख्यानयता श्रीमलयगिरिसूरिणा 'प्रवहे-पग्रहदाद्विनिर्गमे षट्योजनानि सक्रोशानि गङ्गानद्या विस्तार' इति भणितं तत् मकरमुखजिहिकाया विनिगमं यावत् अविशेषेण विवक्षणात् , अन्यथा 'गङ्गासिंधू ण महाणईओ पणवीस गाउयाई-तथा गंगासिंधू णे महाणईओ पवहे साइरेग चउवीस कोसे वित्थरेण पण्णत्ताओ'त्ति समवायाझेन सह विरोधः स्यात् (ही. वृत्ती )।
Jain Education in
For Private Personel Use Only
Hijainelibrary.org