________________
श्रीजम्बूद्वीपशान्तिचन्द्री -
या वृत्तिः
॥२९३॥
Jain Education Int
तस्य बहुमध्यदेशभागे अत्रान्तरे गङ्गाया देव्या महदेकं भवनं प्रज्ञप्तं, आयामादिविभागादिकं शय्यावर्णकपर्यन्तं सूत्र | सव्याख्यानं श्रीभवनानुसारेण ज्ञेयं, अथ नामान्वर्थं पृच्छति - ' से केणट्टेण' मित्यादि, व्यक्तं, अथ गङ्गा यथा यत्र समुप| सर्पतितथाऽऽह - ' तस्स ण' मित्यादि, तस्य गङ्गाप्रपातकुण्डस्य दाक्षिणात्येन तोरणेन प्रव्यूढा - निर्गता सती गङ्गामहा| नदी उत्तरार्द्धभरतवर्षं इयूती २ - गच्छन्ती २ सप्तभिः सलिलानां नदीनां सहस्रैरापूर्यमाणा २ - त्रियमाणा अधः खण्ड - | प्रपातगुहाया वैताढ्यपर्वतं दारयित्वा भित्त्वा दक्षिणार्द्ध भरतं वर्ष इयूती २ दक्षिणार्द्धभरतवर्षस्य बहुमध्यदेशभागं गत्वा पूर्वाभिमुखी आवृत्ता सती चतुर्दशभिः सलिलासहस्त्रैः समग्रा - संपूर्णा आपूर्यमाणा इत्यर्थः अधोभागे जगतींजम्बूद्वीपप्राकारं दारयित्वा पूर्वेण लवणसमुद्रं समुपसर्पति — अवतरतीत्यर्थः, अथास्या एव प्रवहमुखयोः पृथुत्वोद्वेधौ | दर्शयति- 'गंगा ण' मित्यादि, गङ्गा महानदी प्रवहे यतः स्थानात् नदी वोढुं प्रवर्त्तते स प्रवहः पद्मद्रहात्तोरणान्नि र्गम इत्यर्थः, तत्र पट् सक्रोशानि योजनानि विष्कम्भेन, तथा क्रोशार्द्धमुद्वेधेन, महानदीनां सर्वत्रोद्वेधस्य स्वव्यासपश्वाशत्तमभागरूपत्वात्, अस्तीति शेषः, 'तदनन्तर' मिति पद्मद्रहतोरणीयव्यासादनन्तरं एतेन यावत् क्षेत्रं स व्यासोऽनुवृत्तस्तावत् क्षेत्रादनन्तरं गङ्गाप्रपातकुण्डनिर्गमादनन्तरमित्यर्थः, एतेन च योऽन्यत्र प्रवहशब्देन मकरमुखप्रणा| लनिर्गमः प्रपातकुण्डनिर्गमो वाऽभिहितः स नेति, श्रीअभयदेवसूरिपादैः समवायाङ्गवृत्तौ श्रीमलयगिरिपादैश्च बृह
For Private & Personal Use Only
४वक्षस्कारे पद्मइदनिगेताः गङ्गा सिन्धुरोहितांशाः सू. ७४
॥२९३॥
ww.jainelibrary.org