SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ शेष सुबोधं, नवरं घण्टावलेर्वा वशेन चलिताया मधुरो मनोहरश्च स्वरो येषु तानि तथा, 'तेसि ण'मित्यादि, अस्य व्याख्या प्राग्वत्, 'तेसि णमित्यादि, तेषां तोरणानामुपरि बहवः कृष्णचामरध्वजाः एवं नीलचामरध्वजादयोऽपि वाच्याः, ते च सर्वेऽपि कथंभूता इत्याह-अच्छा-आकाशस्फटिकवदतिनिर्मला:, श्लक्ष्णपुद्गलस्कन्धनिर्मापिताः, रूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते तथा, वज्रमयो दण्डो रूप्यपट्टमध्यवर्ती येषा ते तथा, जलजानामिव जलजकुसुमानां पद्मादीनामिवामलो न तु कुद्रव्यगन्धसम्मिश्रो यो गन्धः स विद्यते येषां ते जलजामलगन्धिकाः, का अतोऽनेकस्वरा' (श्रीसिद्ध० अ०७ पा० २ सू०६) दितीकप्रत्ययः, अत एव सुरम्याः, पासाईआ इत्यादि प्राग्वत्, 'तेसि ण'मित्यादि, अस्य व्याख्या प्राग्वत्। अथ गङ्गाद्वीपवक्तव्यतामाह-'तस्स गङ्गप्पवाय'इत्यादि, तस्य गङ्गाप्रपातकुण्डस्य बहुमध्यदेशभागेऽत्र महानेको गङ्गादेव्यावासभूतो द्वीपो गङ्गाद्वीप इति नाम्ना द्वीपः प्रज्ञप्तः, मध्यलोपी समा-18॥ सात् साधुः, अष्टौ योजनान्यायामविष्कम्भेन सातिरेकाणि पञ्चविंशतिं योजनानि परिक्षेपेण द्वौ कोशौ यावदुच्छ्रितो जलान्तात्-जलपर्यन्तात् सर्वतोवर्त्तिजलस्य जलानावृतस्य क्षेत्रस्य द्वीपव्यवहारात् , शेष व्यक्तं, 'से ण'मित्यादि, स गङ्गा द्वीप एकया पद्मवरवेदिकया एकेन वनखण्डेन सर्वतः समन्तात् सम्परिक्षिप्तः, वर्णकश्च भणितव्यो जगतीपद्मवरवेदि18 कावदिति, अथ तत्र यद्यदस्ति तदाह-'गंगादीवस्स ण'मित्यादि, गङ्गाद्वीपस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्ता, Jain Educationa tional For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy