________________
बहूनामुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रशतसहस्रपत्राणा प्रफुल्लानां-विकस्वराणां 18 केसरैः-किंजल्करुपशोभितं-भृतं, विशेषणस्य व्यस्ततया निपातः प्राकृतत्वात् , षट्पदैः-भ्रमरैः परिभुज्यमानानि कम-18
|लानि उपलक्षणमेतत् कुमुदादीनि यस्मिन् तत्तथा, अच्छेन-स्वरूपतः स्फटिकवत् शुद्धेन विमलेन-आगन्तुकमलरहि| तेन पथ्येन-आरोग्यकरणेन सलिलेन पूर्ण, तथा पडिहत्था-अतिप्रभूताः देशीशब्दोऽयं भ्रमन्तो मत्स्यकच्छपा यत्र तत्तथा, अनेकशकुनिमिथुनकानां प्रविचरितं-इतस्ततो गमनं यत्र तत्तथा ततः पूर्वपदेन विशेषणसमासः, तथा शब्दोनतिक-उन्नतशब्दकं सारसादिजलचररुतापेक्षया मधुरस्वरं च हंसभ्रमरादिकूजितापेक्षया एवंविधं नादित-विलपितं
यत्र तत्तथा, अत्र च यत् कानिचिद्विशेषणानि प्रस्तुतसूत्रदृश्यमानादर्शापेक्षया व्यस्ततया लिखितानि सन्ति तजीवाभि18|गमवाप्यादिवर्णकसूत्रस्य बहुसमानगमकतया तदनुसारेणेति बोध्यं, एवंमन्यत्रापि, 'पासाईए'त्ति, अनेन 'पासाईए दरि-18|| | सणिजे अभिरूवे पडिरूवे' इति पदचतुष्टयं ग्राह्य, तच्च प्राग्वत् । अथात्र पद्मवरवेदिकादिवर्णनायाह-से णं'इत्यादि, व्यक्तं, अत्र सुखावतारोत्तारौ कथं भवन इत्याह-'तस्स ण'मित्यादि, तस्य गङ्गाप्रपातकुण्डस्य त्रिदिशि-दिक्त्रये वक्ष्य-8 माणलक्षणे त्रीणि सोपानप्रतिरूपकाणि प्रज्ञप्तानि, एतव्याख्या प्राग्वत् , शेष व्यक्तं, 'तेसि ण'मित्यादि, व्यक्तं, जगतीवर्णकतुल्यत्वात् ,नवरं आलम्बनाः-अवतारोत्तारयोरालम्बनहेतुभूताः अवलम्बनबाहावयवाः, अवलम्बनबाहा नामद्वयोः पार्श्वयोरवलम्बनाश्रयभूता भित्तयः, 'तेसि 'मित्यादि, तेषां त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं २ तोर
Jan Education
For PrivatesPersonal use Only