________________
त्वेवम्-हिमवगिरिव्यासात् योजन १०५२ कला १२ रूपात् गङ्गाप्रवाहव्यासे योजन ६ क्रोश १ प्रमिते शोधिते शेष १०४६ कोशे तु पादोनं कलापञ्चकं तत्कलाद्वादशकात् शोध्यं ततः शेषाः सप्त सपादाः कलाः, गङ्गाप्रवाहः पर्वतस्य मध्यभागेन पद्मद्रहाद्विनिर्याति तेनास्या दक्षिणाभिमुखगङ्गाप्रवाहोनगिरिव्यासार्द्धस्य गन्तव्यत्वेन गङ्गाव्यासोनो गिरिव्यासः योजन १०४६ कलासपादसप्त ७ रूपोऽद्धीक्रियते जातं यथोक्तं योजन ५२३ कला ३, यद्यप्यत्र कलात्रिक किञ्चित्समधिकार्द्धयुक्तमायाति तथाऽप्यल्पत्वान्न विवक्षितमिति। अथ जिव्हिकाया अवसरः-'गङ्गामहा|णई जओ पवडइ इत्थ ण'मित्यादि, गङ्गा महानदी यतः स्थानात् प्रपतति अत्रान्तरे महती एका जिव्हिका प्रणालापरपोया प्रज्ञप्ता, 'सा णं'इत्यादि, सा जिव्हिका अर्द्धयोजनमायामेन षट् सक्रोशानि योजनानि विष्कम्भेन गङ्गा-12 मूलव्यासस्य मातव्यत्वात् अर्द्धकोशं बाहल्येन-पिण्डेन विवृतं-प्रसारितं यन्मकरमुखं-जलचरविशेषमुखं तसंस्था-12 नसंस्थिता विशेषणस्य परनिपातःप्राग्वत सर्वात्मना वज्रमयी इत्यादि कण्ठ्यं । अथ प्रपातकुण्डस्वरूपमाह-'गंगा | महाणई'इत्यादि, गङ्गा महानदी यत्र प्रपतति अत्रान्तरे महदेकं गङ्गाप्रपातकुण्ड नाम यथार्थनामकं कुण्डं प्रज्ञप्त, ।
पष्टिं योजनान्यायामविष्कम्भाभ्यां, अत्र करणविभावनायां 'मूले पण्णासं जोअणवित्थारो ५० उवरिं सट्ठी ६०' इति । || विशेषोऽस्ति, श्रीउमाखातिवाचककृतजम्बूद्वीपसमाससूत्रादावपि तथैव, इत्थं च कुण्डस्य यथार्थनामतोपपत्तिरपि 57 18 भवति, एवमन्येष्वपि यथायोगं ज्ञेयमिति, तथा नवतं-नवत्यधिकं योजनशतं किञ्चिद्विशेषाधिक परिक्षेपेण, श्रीजिन
Jain Education Index
For Private
Personel Use Only
library