SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ Reeeeeeeeeeeeeeeees हौ ४८००००० रित्यस्य पद्मराशेर्भागहरणात् यथोक्तो राशिरुपपद्यत इति पूर्वापरपद्मक्षेत्रयोजनमीलनेन च पूर्वोक्तं सर्वाग्रं सम्पद्यते, परिक्षेपाश्चात्र वृत्ताकारेण बोद्ध्याः क्षेत्रस्य बहुत्वात् सम्भवन्तीति, पंक्तयश्चात्र द्रहक्षेत्रस्यायतचतुरसत्वेन आयामविस्तारयोर्विषमत्वेऽपि पञ्चशतयोजनमर्यादयैव कर्तव्या, ततः परं व्याससत्कपञ्चशतयोजनानां पर्यव| सितत्वात् , शोभमानाश्चोक्तरीत्यैव भवन्तीति । किञ्च-इमानि पद्मानि शाश्वतानि पार्थिवपरिणामरूपत्वात् , वानस्पतान्यपि बहूनि तत्रोत्पद्यन्ते, यदाहुः श्रीउमाखातिवाचकपादाः खोपज्ञजम्बूद्वीपसमासप्रकरणे-"नीलोत्पलपुण्डरीकशतपत्रसौगन्धिकादिपुष्पाश्चित" इति, अन्यथा श्रीवज्रवामिपादाः श्रीदेवतासमर्पितानुपमेयमहापद्मानयनेन पुरिकापुऱ्या कथं जिनप्रवचनप्रभावनामकाधुरिति ? एतानि च न शाश्वतानि, तत्रत्यश्रीदेवतादिभिरवचीयमानत्वात् , यदूचुः, श्रीहेमचन्द्रसूरयःखोपज्ञपरिशिष्टपर्वणि-"तदा च देवपूजार्थमवचित्यैकमम्बुजम् । श्रीदेव्या देवतागारं, यान्त्या वज्रपिरैश्यत ॥ १॥” इति, नन्वयमनन्तरोक्तोऽर्थः कथं प्रत्येतव्यः?, उच्यते, इदमेव द्वितीयपरिक्षेपसूत्रं प्रत्यायक, 19 तथाहि-अत्रैकादशाधिकचतुस्त्रिंशत्सहस्रकमलानि उक्तदिशि माययितव्यानि, तानि च क्रोशमानानि एकपंन्या च तदाऽवकाशं लभेत यदा द्वितीयपद्मपरिधिरेकादशाधिकचतुस्त्रिंशत्सहस्रकोशप्रमाणः स्यात् , स च तदा स्याद् यदा मूलक्षेत्रायामव्यासौ साधिकषड्विंशतिशतप्रमाणौ स्यातां, तो प्रस्तुते न स्तः, तेन यथासम्भवं पंक्तिभिर्द्वितीयपरिक्षेपपद्मजातिः पूरणीयेति तात्पर्य, एक्सन्यपरिक्षेपेष्वपि यथासम्भवं भावना कार्येति, अथ कथमयमर्थः सिद्धान्ततां प्रापित | Jain Education Intel For Private Personel Use Only WHviainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy