________________
श्रीजम्बूद्वीपशान्तिचन्द्री -
या वृत्तिः
॥२८७॥
Jain Education Interri
| दश च भागा योजनस्य षोडशभागीकृतस्य २१२५, उपपत्तिस्तु योजनपादप्रमाणत्वादिमानि षोडश मान्तीति २४०११ | इत्ययं परिक्षेपपद्मराशिः षोडशभिर्भज्यते, आगच्छत्यनन्तरोको राशिः अस्यां च परिक्षेपजातौ पंतयः सूत्रोकस्वत्वदिशि निवेशनीयपद्मनिवेशनेन विषमवृत्ताः सम्भाव्यन्ते, पद्मानां विषमसङ्ख्याकत्वादिति, अथ तृतीयः परिक्षेपः षोडशसहस्रपद्मानां तदवगाहक्षेत्रं द्वे शते पञ्चाशदधिके योजनानां २५०, उपपत्तिस्तु अमूनि योजनाष्टमभागप्रमाणत्वाद्योजने चतुःषष्टिर्मान्तीति चतुःषष्ट्या १६००० प्रमाणः पद्मराशिर्भज्यते, उपतिष्ठते चायं राशिः अत्र च पंक्तयः समवृत्ता एव निवेशनीयाः, यथेच्छं चतुर्दिक्षु पद्मानां निवेशनादिति, अथ चतुर्थः परिक्षेपो- द्वात्रिंशलक्षपद्मानां तदवगाहक्षेत्रं द्वादश सहस्राणि पञ्चशताधिकानि योजनानां १२५००, आनयनोपायस्तु एषां योजनषोडशभागप्रमाणत्वाद्योजने २५६ मान्तीति पट्पञ्चाशदधिकशतद्वयेन ३२००००० इत्ययं पद्मराशिर्भज्यते, ततो यथोक्तो राशिरायातीति, | अथ पञ्चमः परिक्षेपः चत्वारिंशलक्षपद्मानां तदवगाहक्षेत्रं त्रीणि सहस्राणि नव शतानि च षडधिकानि योजनानां चत्वारश्च षोडशभागा योजनस्य ३९०६, ६, उपपत्तिस्तु एषां योजनद्वात्रिंशत्तमांशप्रमाणत्वादमूनि योजने १०२४ मान्तीति चतुर्विंशत्यधिकसहस्रेण ४०००००० रूपकस्य पद्मराशेर्भागहरणेन प्राप्यते यथोक्तराशिरिति, अथ षष्ठः परिक्षेप:- अष्टचत्वारिंशल्लक्षं पद्मानां तदवगाहक्षेत्रं एकादश शतानि एकसप्तत्यधिकानि योजनानां चतुर्दश च षोडशभागाः योजनस्य ११७११६, उपपत्तिश्चात्र - अमीषां योजनचतुःषष्टितमांशप्रमाणत्वाद्योजने ४०९६ मान्तीति षण्णवत्यधिकचतुःस
For Private & Personal Use Only
४वक्षस्कारे हैमवतीयपद्मद्रहाविकारः
सू. ७३
॥२८७॥
Jainelibrary.org