________________
शभागमाना पश्चमी तवात्रिंशत्तमभागमाना षष्ठी तच्चतुःषष्टितमभागमाना, ततश्च तत्परिधिक्षेत्रपरिक्षेपपझसङ्ख्या पद्मविस्तारान् परिभाव्य यत्र यावत्यः पंक्तयः सम्भवंति गणितज्ञेन करणीयास्तत्र तावतीभिः पंक्तिभिरेक एव परिक्षेपो ज्ञेयः, पद्मानामेकजातीयत्वात्, किमुक्तं भवति ?-महापरिक्षेप एकया पंक्त्या न सम्माति, इह परिधिक्षेत्रस्याल्पत्वात् , पद्मानां च बहुत्वात् , ततः पंक्तिभिः पद्मानि पूरणीयानि, एवं परिक्षेपः पूर्णो भवति, द्रहपरिधिश्च प्रतिपरिक्षेपं भिन्नमानकत्वात् सपद्मपरिक्षेपो भिन्न एव लक्ष्यते इति, न च द्रहक्षेत्रस्याल्पत्वमिति वाच्यं, अत्र गणितपदक्षेत्रस्य पञ्चलक्षयोजनप्रमाणत्वात् , सहस्रयोजनप्रमाणायामस्य पञ्चशतयोजनविष्कम्भेन गुणने एतावत एव लाभात्, पद्मावगाढक्षेत्रं तु सर्वसङ्ख्यया विंशतिः सहस्राणि पश्चाधिकानि योजनानां षोडशभागीकृतस्यैकस्य योजनस्य त्रयोदश भागाः, २००५३ तथाहि-मूलपद्मावगाहो योजनमेकं जगती द्वादश योजनानि मूले पृथुरिति, जगतीपूर्वापरभाग-३॥ सत्कमूलव्यासयोर्मीलनेन पञ्चविंशतिर्योजनानीति, तथा तत्परिधौ प्रथमः परिक्षेपोऽष्टोत्तरशतपद्यानां तदवगाहक्षेत्रं सप्तविंशतिर्योजनानि, अर्द्धयोजनप्रमाणत्वेन तेषामेकस्मिन् योजने चतुर्णामवकाशाच्चतुर्भिरष्टोत्तरशते भक्के एतावतामेव लाभात् , ननु योजनार्द्धमानवतां तावतां चतुःपञ्चाशद् योजनानि सम्भवेयुरिति, सत्यं, क्षेत्रबहुत्वादेकपंक्त्या व्यवस्थितत्वेन प्रत्येक योजनचतुर्थाशावगाहकत्वेन च उक्तसङ्ख्यैव समुचिता, अत्र पद्मरुद्धक्षेत्रस्यैव भणनादिति, तथा द्वितीयः परिक्षेप एकादशाधिकचतुस्त्रिंशत्सहस्राणां, तदवगाहक्षेत्रं द्वे सहस्र पञ्चविंशत्यधिकं शतं च योजनानां एका
Jan Education in
For Private Personal Use Only
in library.org