SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू द्वीपशा न्तिचन्द्रीया वृत्तिः वक्षस्कारे हैमवतीयपबद्रहाधिकारः | सू. ७३ ॥२८६॥ कमलानि कमलिन्याः पुष्परूपाणि भवन्ति, मूलं कन्दश्च कमलिन्या एव भवतः, नतु कमलस्य, तत्कथमत्र मूलकन्दावुक्तौ ?, उच्यते, कमलान्यत्र न वनस्पतिपरिणामानि, किन्तु पृथिवीकायपरिणामरूपाः कमलाकारवृक्षास्तेन तेषामिमौ न विरुद्धाविति, अत्राद्यपरिक्षेपपद्मानां मूलपद्मादर्द्धमानं सूत्रकृता साक्षादुक्तं, उत्तरोत्तरपरिक्षेपपद्मानां तु पूर्वश्परिक्षेपप - भ्योऽर्द्धार्द्धमानता युक्तितः सङ्गच्छते विजयप्रासादपंक्तरिव, अन्यथाऽल्पर्द्धिकमहर्द्धिकदेवानामाश्रयतारतम्यं चतुर्थादिमहापरिक्षेपपद्मानामवकाशः शोभमानस्थितिकत्वं च न सम्भवेत् , अर्द्धार्द्धमानता चैवम्-मूलपमं योजनप्रमाणं आये परिक्षेपे पद्मानि द्विक्रोशमानानि द्वितीये क्रोशमानानि तृतीयेऽर्द्धक्रोशमानानि चतुर्थे पञ्चधनुःशतमानानि पञ्चमे सार्द्धद्विशतधनुर्मानानि षष्ठे सपादशतधनुर्मानानि, तथा मूलपद्मापेक्षया सर्वपरिक्षेपेषु जलादुच्छ्यभागोऽप्य र्द्धक्रमेण ज्ञेयः, | यथा मूलपमं जलात् क्रोशद्वयमुच्छ्ये आधे परिक्षेपे क्रोश उच्छ्रयः द्वितीये क्रोशार्द्ध तृतीये क्रोशचतुर्थाशः चतुर्थे क्रोशाष्टांशः पञ्चमे क्रोशषोडशांशः षष्ठे कोशद्वात्रिंशांश इति, एवमेव मूलपद्मापेक्षया परिक्षेपपंझानां बाहल्यमप्यर्द्धा-1 ईक्रमेण वाच्यं । ननु षट् परिक्षेपा इति विचार्य, योजनात्मना सहस्रत्रयात्मकस्य धनुरात्मना द्विकोटिद्विचत्वारिंशल्ल| क्षप्रमाणस्य द्रहपरमपरिधेः षष्ठपरिक्षेपपद्मानां पष्टिकोटिधनुःक्षेत्रमातव्यानां एकया पंक्त्या कथमवकाशः सम्भवति? एवं प्रथमपरिक्षेपवर्ज शेषपरिक्षेपाणामपि तत्परिधिमानपद्ममाने परिभाव्य वाच्यं, उच्यते, षट् परिक्षेपा इत्यत्र षड्जातीयाः| परिक्षेपा इति ब्राह्म, आद्या मूलपार्द्धमाना जातिः द्वितीया तत्पादमाना तृतीया तदष्टममागमाना चतुर्थी तत्वोड For Private Persone Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy