________________
18 चतुर्दिक् तस्मिन् चतुादा पस्यां चत्वारि दक्षिणस्या वक्तव्यतिरिक्तैः पद्मपरिक्षेपैः संवत
सिंहासनपरिवारानुसारेण पार्षद्यादिपद्मसूत्राणि वक्तव्यानि, सुगमत्वाच्च न विवियन्ते, यावत्पश्चिमायां सप्तानीकाधिपतीनां सप्त पद्मानि । अथ तृतीयपद्मपरिक्षेपसमय:-'तस्स णमित्यादि, तस्य मुख्यपद्मस्य चतसृणां दिशां समाहार-18 |श्चतुर्दिक् तस्मिन् चतुर्दिशि सर्वतः समन्तात् , अत्रान्तरे श्रिया देव्याः षोडशानामात्मरक्षकदेवसहस्राणां षोडश पद्मसहस्राणि, तथाहि-चत्वारि पूर्वस्यां चत्वारि दक्षिणस्यां एवं पश्चिमोत्तरयोः । अथोक्तव्यतिरिक्ताः अन्येऽपि त्रयः परिवेषाः सन्तीत्याह-से णं पउमे' इत्यादि, तत्पमं त्रिभिरुक्तव्यतिरिक्तैः पद्मपरिक्षेपैः सर्वतः समन्तात् सम्परिक्षिप्तं, || तद्यथा-अभ्यन्तरकेण-अभ्यन्तरभवेन मध्यमकेन-मध्यभवेन बाहिरकेण-बहिर्भवेन, एतदेव व्यनक्ति-अभ्यन्तरपद्मपरिक्षेपे द्वात्रिंशत्पद्मानां शतसहस्राणि-लक्षाणि मध्यमके चत्वारिंशत्पद्मलक्षाणि बाह्येऽष्टचत्वारिंशत्पद्मलक्षाणि प्रज्ञतानि, इदं च पद्मपरिक्षेपत्रिकं आभियोगिकदेवसम्बन्धि बोध्यं, अत एव भिन्नत्रिकख्यापनपरं सूत्रं निर्दिष्टं, अन्यथा सूत्रकृत् चतुर्थपञ्चमषष्ठपरिक्षेपाः इत्येवाकथयिष्यत्, ननु तर्हि आभियोगिकजातीयानामेक एवात्मरक्षकाणामिव वाच्या, उच्यते, उच्चमध्यनीचकार्यनियोज्यत्वेनाभियोगिकानां भिन्नत्वेन परिक्षेपस्यापि भिन्नत्वात् , अथ परिक्षेपत्रिकस्य पद्मसर्वाग्रमाह-एवमेव'इत्यादि, एवमेव-उक्तन्यायेन सपूर्वापरेण-सपूर्वापरसमुदायेन त्रिभिः पद्मपरिक्षेपैरेका | पद्मकोटी विंशतिश्च पद्मलक्षाणि भवन्तीत्याख्यातं मयाऽन्यैश्च तीर्थकृद्भिः, सङ्ख्यानयनं च स्वयमभ्यूज़, पण्णां पद्मपरिक्षेपाणां मुख्यपझेन सह मीलने सैव सङ्ख्या पञ्चाशत्सहस्रकशतविंशत्यधिका ज्ञातव्या, स्थापना यथा-१२०५०१२०, ननु
JELA
For Private Personel Use Only
A
Mw.jainelibrary.org