SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥२८४॥ मित्यादि, तस्य - पद्मद्रहस्य बहुमध्यदेशभागः अत्रान्तरे महदेकं पद्मं प्रज्ञप्तं, एकं योजनमायामतो विष्कम्भतश्च अर्द्ध| योजनं बाहल्येन - पिण्डेन दश योजनान्युद्वेधेन - जलावगाहेन द्वौ क्रोशावुच्छ्रितं जलान्तात् - जलपर्यन्तात्, एवं सातिरेकाणि दश योजनानि सर्वाग्रेण प्रज्ञप्तानि, जलावगाहो परितन भाग सत्ककमलमानमीलने एतावत एव सम्भवात् । | 'से ण' मित्यादि, तत्पद्ममेकया जगत्या - प्राकारकल्पया सर्वतः समन्तात् संपरिक्षिप्तं, सा च जगती जम्बूद्वीपजगतीप्रमाणा वेदितव्या, एतच्च प्रमाणं जलादुपरिष्टाद् ज्ञेयं, दशयोजनात्मकजलावगाहप्रमाणस्याविवक्षितत्वात्, गवाक्ष| कटकोऽपि - जालकसमूहोऽपि तथैव प्रमाणेन उच्चत्वेनार्द्धयोजनं पञ्चधनुः शतानि विष्कम्भेनेत्यर्थः । अथ पद्मवर्णकमाह - 'तस्स 'ति तस्य - पद्मस्यायमेतद्रूपो वर्णव्यासः प्रज्ञप्तः, तद्यथा-वज्रमयानि मूलानि - कन्दादधस्तिर्यग्निर्गतजटासमूहावयवरूपाणि अरिष्ठरत्नमयः कन्दो - मूलनालमध्यवर्ती ग्रन्थिः वैडूर्यमयं नालं - कन्दोपरि मध्यवर्त्यवयवः वैडूर्यमयानि बाह्यपत्राणि, अत्रायं विशेषो बृहत्क्षेत्रविचारवृत्त्यादौ - बाह्यानि चत्वारि पत्राणि वैडूर्यमयानि शेषाणि तु रक्तसुवर्णमयानि, जम्बूनदं - ईषद्रकस्वर्ण तन्मयान्यभ्यन्तरपत्राणि, सिरिनिलयमिति क्षेत्र विचारवृत्तौ तु पीतस्वर्णमयान्युतानि, तपनीयमयानि - रक्तस्वर्णमयानि केसराणि - कर्णिकायाः परितोऽवयवः नानामणिमयाः पुष्करास्थिभागा :कमलबीजविभागाः कनकमयी कर्णिका - बीजकोशः, अथ कर्णिकामानाद्याह – “सा णमित्यादि, सा-कर्णिका अर्द्धयोजनमायामेन विष्कम्भेन च क्रोशं बाहल्येन - पिण्डेन सर्वात्मना कनकमयी, अत एव कनकमयीति पूर्वविशेषणेना Jain Education International For Private & Personal Use Only ४ वक्षस्कारे हैमवतीय पद्मद्रहा - धिकारः सू. ७३ ॥२८४॥ www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy