SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Jain Education le खावो नाभावो विद्यते सतः" इति वचनात्, यौ तु दृश्येते प्रतिवस्तु उत्पादविनाशौ तदाविर्भावतिरोभावमात्रं, यथा सर्पस्य उत्कणत्वविफणत्वे, तस्मात् सर्वं वस्तु नित्यमिति, एवं च तन्मतचिन्तायां संशयः - किं घटादिवत् द्रव्यार्थतया शाश्वती उत सकलकालमेवंरूपेति । ततः संशयापनोदार्थं भगवन्तं भूयः पृच्छति - 'पउमवरवेइया ण' मित्यादि, पद्मवर वेदिका णमिति पूर्ववत् भदन्त ! - परमकल्याणयोगिन् किञ्चिरं - कियन्तं कालं यावद्भवति, एवंरूपा कियन्तं कालमवतिष्ठते इति, भगवानाह - गौतम ! न कदाचिन्नासीत्, सर्वदेवासीदितिभावः, अनादित्वात्, तथा न कदाचिन्न भवति, सर्वदैव वर्त्तमानकालचिन्तायां भवतीति भावः सर्वदैव भावात्, तथा न कदाचिन्न भविष्यति, किन्तु भवि - व्यच्चिन्तायां सर्वदैव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितत्वात्, तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं (विधाय ) सम्प्रत्यस्तित्वं प्रतिपादयति- 'भुविं च' इत्यादि, अभूच्च भवति च भविष्यति चेति, एवं त्रिकालावस्थायित्वात् ध्रुवा मे|र्वादिवत् ध्रुवत्वादेव सदैव स्वस्वरूपेति नियता, नियतत्वादेव च शाश्वती- शश्वद्भवनस्वभावा शाश्वत्वादेव च सततगङ्गासिन्धुप्रवाहप्रवृत्तावपि पौण्डरीक (पद्म) हद इवानेकपुद्गलविघटनेऽपि तावन्मात्रान्यपुद्गलोच्चटनसम्भवात् अक्षया न विद्यते क्षयो- यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः सा अक्षयत्वादेवाव्यया-अव्ययशब्दवाच्या, मनागपि स्वरूपचलनस्य जातु - चिदप्यसम्भवातू, अव्ययत्वादेव स्वप्रमाणेऽवस्थिता मानुषोत्तरपर्वताद्बहिः समुद्रवत्, एवं स्वस्वप्रमाणे सदावस्थानेन चिन्त्यमाना नित्या धर्मास्तिकायादिवत् । अथ जगत्या उपरि पद्मवरवेदिकायाः परतो यदस्ति तदावेदयति For Private & Personal Use Only wjainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy