SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ||२८२ ॥ Jain Education Intern Cococottet समसूत्रत्वात् । अथैतस्य जीवामाह - ' तस्स जीवा' इत्यादि, तस्य क्षुद्र हिमवतो जीवा उत्तरतो ग्राह्या, प्राचीनप्रतीची| नायता, जाव पञ्चत्थिमिलाए इत्यादि प्राग्वत्, यावत्पदात् पुरथिमिलाए कोडीए पुरत्थिमिलं लवणसमुदं पुट्ठा इति ग्राह्यं, आयामेन चतुर्विंशतियोजन सहस्राणि नव च द्वात्रिंशदधिकानि योजनशतानि अर्द्धभागं च - कलार्द्ध प्रज्ञप्ता | किंचिद्विशेषोना किंचिदूना इत्यर्थः किंचिदूनत्वं चास्या आनयनाय वर्गमूले कृते शेषशेषरितनराश्यपेक्षया द्रष्टव्यं, अथास्याः परिधिमाह - 'तीसे' इत्यादि, तस्याः क्षुद्रहिमवज्जीवायाः धनुःपृष्ठं दक्षिणतो - दक्षिणपार्श्वे पंचविंशतिः योजन| सहस्राणि द्वे च त्रिंशदधिके योजनशते चतुरश्च एकोनविंशतिभागान् योजनस्य परिक्षेपेण-परिधिना प्रज्ञप्तं, यच्चात्र | 'तीसे' इतिशब्देन जीवा निर्देशस्तत्स्वस्वजीवापेक्षया स्वस्वधनुः पृष्ठस्य यथोक्तमानतोपपत्त्यर्थं, अन्यथा न्यूनाधिकमानसम्भवात्, अथ पर्वतं विशेषणैर्विशिनष्टि - 'रुअग' इत्यादि, रुचकसंस्थानसंस्थितः सर्वकनकमय इत्यादि प्राग्वत्, | नवरं द्वयोरपि पद्मवर वेदिकावनखण्डयोः प्रमाणं वर्णकश्च ज्ञातव्याविति शेषः । अथास्य शिखरस्वरूपमाह - 'चुल्लहिमवंत' मित्यादि, प्राग्व्याख्यातार्थं, नवरं बहुसमत्वं चात्र नदीस्थानादन्यत्र ज्ञेयं, अन्यथा नदीश्रोतसां संसरणमेव न स्यात् । + तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेखभाए इत्थ णं इके महं पउमरहे णामं दहे पण्णत्ते पाईणपढिणायए उदीणदाहिणविच्छिणे इकं जोअणसहस्सं आयामेणं पंच जोअणसबाई विक्खंभेणं दस जोअणाइं उब्वेहेणं अच्छे सण्डे रययामयकूलें For Private & Personal Use Only ४वक्षस्कारे पद्मदख रूपं सू.७३ ॥२८२॥ www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy