________________
उभओ पास दोहिं पउमवरवेइहिं दोहि अ वणसंडेहिं संपरिक्खित्ते दुण्हवि पमाणे वण्णगोत्ति । चुल्लहिमवन्तस्स वासहरपव्वयस्स उवरिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते से जहा णामए आलिंगपुक्खरेइ वा जाव बहवे वाणमंतरा देवा य देवीओ अ आसयंति जाव विहरंति (सूत्र-७२)
'कहिण'मित्यादि,व भदन्त ! जम्बूद्वीपे द्वीपे क्षुल्लः क्षुद्रोवा-महाहिमवदपेक्षयालघुहिमवान् क्षुल्लहिमवान् क्षुद्रहिम-|| वान् (वा) नाम्ना वर्षधरः-पर्वतःप्रज्ञप्तः१, वर्षे-उभयपार्थस्थिते द्वे क्षेत्रे धरतीति वर्षधरः, क्षेत्रद्वयसीमाकारी गिरिरित्यर्थः,
स चासौ पर्वतश्च वर्षधरपर्वतः आख्यातस्तीर्थकृद्भिरिति, शेषं सुगम, नवरं एक योजनशतं ऊर्बोच्चत्वेन पंचविंशतिर्यो18 जनानि उद्वेधेन-भूगतत्वेन, उच्चत्वचतुर्थभागस्यैव भूगतत्वात् , एक योजनसहस्रं द्विपञ्चाशच योजनानि द्वादश चैको-18
नविंशतिभागान् योजनस्य विष्कम्भेन, अस्योपपत्तिस्तु द्विगुणितजम्बूद्वीपव्यासस्य नवत्यधिकशतेन भागहरणे भवति, | क्षुद्रहिमवतो भरताद् द्विगुणत्वात् , अत्र च करणविधिर्भरतवर्षविष्कम्भ इव ज्ञेयः, अथास्य बाहे आह-तस्स बाहा' इत्यादि, तस्य-क्षुद्रहिमवतो बाहे प्रत्येक पूर्वपश्चिमयोः पंच योजनसहस्राणि त्रीणि च योजनशतानि पंचाशदधिकानि पंचदश च योजनस्यैकोनविंशतिभागान् एकस्य योजनैकोनविंशतितमभागस्यार्द्ध च यावदायामेन प्रज्ञप्ते, सूत्रे च वचनव्यत्ययः प्राकृतत्वात् , स्थापना यथा-योजन ५३५० कला १५१ अस्य व्याख्यानं वैताढ्याधिकारसूत्रतो ज्ञेयं, प्रायः
१ गुरुधणुपर्छ लहुधणुपट्टेणं अद्धिअं बाहा २५२३०१, १४५२८१० ११७०१२३४-५३५०११
Jain Education in
For Private Personal Use Only
w.jainelibrary.org