________________
अदुत्तरं च णं गो० ! भरहस्स वासस्स सासए णामधिज्जे पण्णत्ते जंण कयाइ ण आसि ण कयाइ णत्थि ण कयाइ ण भविस्सइ भुवि च भवइ अ भविस्सइ अ धुवे णिअए सासए अक्खए अव्वए अवट्ठिए णिचे भरहे वासे ( सूत्र-७१)
भरतश्चात्र देवो महर्द्धिको महाद्युतिको यावत्पदात् 'महायसे' इत्यादि पदकदम्बकं ग्राह्यं, पल्योपमस्थितिकः परिवसति तद् भरतेति नाम, एतेनार्थेन गौतम! एवमुच्यते भरतं वर्ष २, निरुकं तु प्राग्वत्॥ उकं यौगिकयुक्त्या नाम, अथ तदेव रूढ्या दर्शयति-'अदुत्तर मिति, अथापरं चः समुच्चयेणं वाक्यालङ्कारे गौतम! भरतस्य वर्षस्य शाश्वतं नामधेयं निनिर्मित्तकमनादिसिद्धत्वाद्देवलोकादिवत् प्रज्ञप्तं, शाश्वतत्वमेव व्यक्त्या दर्शयति-यन्न कदाचिन्नासीदित्यादि प्रावित्, एतेन भरतनाम्नश्चक्रिणो देवाच्च भरतवर्षनाम प्रवृत्तं भरतवर्षाच्च तयोर्नाम भरतं स्वकीयेनास्यास्तीति निरुतवशेन प्रावर्ततेत्यन्योऽन्याश्रयदोषो दुर्निवार इति वचनीयता निरस्ता ॥ इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानऐदयुगीननराधिपतिचक्रवर्तिसमानअकब्बरसुरत्राणप्रदत्तपाण्मासिकसर्वजन्तुजाताभयदानशत्रुञ्जयादिकरमोचनस्फुरन्मानप्रदानप्रभृतिबहुमानयुगप्रधानोपमानसाम्प्रतविजयमानश्रीमत्तपागच्छाधिराजश्रीहीरविजयसूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां-जम्बूद्वीपप्रज्ञप्तिवृत्तौ प्रमेयरत्नमञ्जूषानाम्यां
भरतक्षेत्रप्रवृत्तिनिमित्ताविर्भावकभरतचक्रिचरितवर्णनो नाम तृतीयो वक्षस्कारः॥३॥ १ इति भरतक्षेत्रवक्तव्यतानिबद्धः प्रथमोऽधिकारः ( इति. ही वृत्ती)।
Jain Education HIPE
FC Privatpanse Only
19
w
w.ininelibrary.org