SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ लङ्कारस्य पूर्व त्यक्तत्वात् केशालङ्कारस्य च तित्यक्ष्यमाणत्वात् परिशेषात् वस्त्रमाल्यालङ्कारयोरवग्रहः, स्वयमेव पञ्चमुष्टिकं लोचं करोति कृत्वा च उपलक्षणात् सन्निहितदेवतयाऽर्पितं साधुलिङ्ग गृहीत्वा चेति गम्यं, ततः शक्रवन्दितः सन् आदर्शगृहात् प्रतिनिष्क्रामति प्रतिनिष्क्रम्य च अन्तःपुरमध्यंमध्येन निर्गच्छति निर्गत्य च दशभी राजसहस्रः सार्द्ध संपरिवृतो विनीताया राजधान्या मध्यंमध्येन निर्गच्छति निर्गत्य च मध्यदेशे-कोशलदेशस्य मध्ये सुखंसुखेन विहरति । तदनु किं विधत्ते इत्याह-विहरित्ता जेणेव अट्ठावए' इत्यादि, विहृत्य च यत्रैवाष्टापदः पर्वतस्तत्रैवोपागच्छति, उपागत्य चाष्टापदं पर्वतं शनैः २ सुविहितगत्या 'दवदवस्स न गच्छिज्जा' इति वचनात् आरोहति आरुह्य च घनमेघसन्निकाशं-सान्द्रजलदश्याम पदव्यत्ययः प्राकृतत्वात् देवानां सन्निपातः-आगमनं रम्यत्वात् यत्र स तथा तं, पृथिवीशिलापट्टकः-आसनविशेषस्तं प्रतिलेखयति, केवलित्वे सत्यपि व्यवहारप्रमाणीकरणार्थ दृष्ट्या निभालयति, प्रतिलिख्य च सिंहावलोकनन्यायेनात्रापि आरोहतीति बोध्यं, संलिख्यते-कृशीक्रियते शरीरकषायाद्यनयेति सँल्लेखना-तपोविशेषलक्षणा तस्या जोषणा-सेवना तया जुष्टः-सेवितो झूषितो वा-क्षपितः यः स तथा, प्रत्याख्याते भक्तपाने येन सर तथा, कान्तस्य परनिपातः प्राकृतत्वात् , 'पादोपगतः पादो-वृक्षस्य भूगतो मूलभागस्तस्येवाप्रकम्पतयोपगतम्-अवस्थानं । यस्य स तथा, कालं-मरणमनवकांक्षन-अवाञ्छन् , उपलक्षणाजीवितमप्यवाञ्छन् , अरक्तद्विष्टत्वाद्विहरति, अथ स भरतो यस्मिन् पर्याये यावन्तं कालमतिवाह्य निर्ववृते तथाह-तए ण'मित्यादि, ततः स भरतः केवली सप्तसप्तति । L For Private Personel Use Only Jain Education w.ininelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy