________________
निषीदति निषद्य चादर्शगृहे आत्मानं प्रेक्षमाणः २-तत्र प्रतिबिम्बितं सर्वाङ्गस्वरूपं पश्यन् पश्यस्तिष्ठति-आस्ते, अत्र च 'व्याख्यातो विशेषप्रतिपत्ति'रित्ययं सम्प्रदायो बोध्यः, तद्यथा-'तत्र च प्रेक्षमाणस्य, स्वं वपुरतेशितुः । अङ्गल्या
एकतमस्या, निपपातांगुलीयकम् ॥१॥ तदंगुल्या गलितमप्यंगुलीयं महीपतिः । नाज्ञासीद्वहिणो बहभारादर्हमिवै६ ककम् ॥ २॥ वपुः पश्यन् क्रमेणेक्षांचक्रे तां चयनूमिकाम् । अंगुली गलितज्योत्स्नां, दिवा शशिकलामिव ॥३॥
अहो विशोभा किमसावंगुलीति विचिन्तयन् । ददर्श पतितं भूमावंगुलीयं नरेश्वरः॥४॥ किमन्यान्यपि विशोभान्य-18 ङ्गान्याभरणैर्विना । इति मोक्तुं स आरेभे,भूषणान्यपराण्यपि ॥५॥' इति, एवं प्रवृत्तस्य तस्य किमजनीत्याह-'तए ण-' मित्यादि, ततो-वपुयस्तभूषणमोचनानन्तरं तस्य भरतस्य राज्ञः शुभेन परिणामेन “अन्तःक्लिन्नस्य विष्ठाद्यैर्मलैः स्रोतोभवैर्बहिः । चिन्त्यमानं किमप्यस्य, शरीरस्य न शोभनम् ॥१॥ इदं शरीरं कर्पूरकस्तूरीप्रभृतीन्यपि । दूषयत्येव पाथोदपयांस्यूषरभूरिव ॥२॥ यत्प्रातः संस्कृतं धान्यं, तन्मध्याहे विनश्यति । तदीयरसनिष्पन्ने, काये का नाम सारता॥३॥"इति शरीरासारत्वभावनारूपया जीवपरिणत्या प्रशस्तैरध्यवसानैः-उक्तस्वरूपैर्मनःपरिणामैः लेश्याभिःशुक्लादिद्रव्योपहितजीवपरिणतिरूपाभिर्विशुद्धयन्तीभिः-उत्तरोत्तरविशुद्धिमापद्यमानाभिरापद्यमानाभिर्निरावरणवपुर्वरूप्यविषयकमीहापोहमार्गणागवेषणं कुर्वतस्तदावरणीयानां-केवलज्ञानदर्शननिबन्धकानां चतुर्णा घातिकर्मणां क्षयेणसर्वथा जीवप्रदेशेभ्यः तदीयपुद्गलपरिशाटनेन प्राग्व्याख्यातानुत्तरादिविशेषणविशिष्टं केवलज्ञानदर्शनमुत्पन्न मिति,
For Private
Jain Education inte
M
Personal Use Only
ainelibrary.org