________________
भणधरः सर्व कसुरभिकुसुमानां माखाणा-प्रधानस्त्रीणां गुल्म-अव्यक्ता समितयः-अभ्यन्तरादिः।
वैरिषु अत्र सर्वशत्रुष्विति पदं देहलीप्रदीपन्यायेनोभयत्र योज्यं, कीदृशो भरत इत्याह-भरताधिपो नरेन्द्रः चन्दनेन चर्चितं-समण्डनं कृतमङ्गं यस्य स तथा, वरहारेण रतिदं-द्रष्टणां नयनसुखकारि वक्षो यस्य स तथा, वरमुकुटविशि-18| ष्टकः,चूर्णौ तु 'वरमउडाविद्धए' इति,तत्र आविद्धए इति आविद्धं परिहितं वरमुकुटं अनेन स तथा, प्राकृतत्वात् पदव्यत्ययः, वरवस्त्रभूषणधरः सर्वर्तकसुरभिकुसुमानां माल्यैः-मालाभिः शोभितशिरस्कः वरनाटकानि-पात्रादिसमुदायरूपाणि नाटकीयानि च-नाटकप्रतिबद्धपात्राणि वरस्त्रीणां-प्रधानस्त्रीणां गुल्म-अव्यक्तावयवविभागवृन्दं तेन तृतीयालोप आर्षत्वात् सार्द्ध सम्परिवृतः सर्वोषध्यः-पुनर्नवाद्याः सर्वरत्नानि-कर्कतनादीनि सर्वसमितयः-अभ्यन्तरादि-18 पर्षदस्ताभिः समग्रः-सम्पूर्णः, अत एव सम्पूर्णमनोरथः हतानां-पुमर्थत्रयभ्रष्टत्वेन जीवन्मृतानां अमित्राणां-शत्रूणां| मानमथनः, कीदृशानि सुखानि भुक्ते इत्याह-पूर्वकृततपःप्रभावस्य निविष्टसंचितस्य-निकाचिततया संचितस्य तस्यैव ध्रुवफलत्वात् , परनिपातः पदस्यापत्वात् , फलानि-फलभूतानि, कीदृशो भरतो?-भरते-अस्मिन् क्षेत्रे प्रथमभरता|धिपत्वेन प्रसिद्धं नामधेयं-नाम यस्य स तथा, विशेष्यपदं तु 'तए णं से भरहे राया' इत्यत्रैवीतं, अनेनैकवाक्ये द्विर्विशेष्यपदं कथमित्याशङ्का निरस्ता॥ अथास्य नरदेवस्य धर्मदेवत्वप्राप्तिमूलमाह
तए णं से भरहे राया अण्णया कयाइ जेणेव मज्जणघरे तेणेव उवागच्छइ २ त्ता जाव ससिव्व पिअदसणे णरवई मज्जणघराओ पडिणिक्खमइ २ त्ता जेणेव आदसघरे जेणेव सीहासणे तेणेव उवागच्छइ २ त्ता सीहासणवरगए पुरत्थाभिमुहे णिसीअइ २ त्ता आदंसंघरंसि अत्ताणं देहमाणे २ चिट्ठइ, तए णं तस्स भरहस्स रण्णो सुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं लेसाहिं विसुज्झ
JainEducation introll
For P
ate
Personal use only
G
anelibrary.org