SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Jain Education! माह - 'णवर' मिति, अयं विशेष:- आभियोगिकसुराणामपरेभ्योऽभिषेचकेभ्यः पक्ष्मलया - पक्ष्मवत्या सुकुमारया च अत्र यावत्पदग्राह्यमिदं 'गन्धकासाइआए गायाइं लूहेति सरसगोसीसचन्दणेणं गायाई अणुलिंपति २ ता नासाणीसासवायवोज्नं चक्खुहरं वेण्णफरिसजुत्तं हयलालापेलवाइरेगं धवलं कणगखइअंतकम्मं आगासफलिहसरिसप्पभ्रं अहयं दिवं देवदूतजुअलं णिअंसावेंति २ त्ता हारं पिणद्धेति २ त्ता एवं अद्धहारं एगावलिं मुत्तावलिं रयणावलिं पालम्बं अंगाई तुडिआई कडयाई दसमुद्दिआणंतगं कडिसुत्तगं वेअच्छगसुत्तगं मुरविं कंठमुरविं कुण्डलाई चूडामणिं चित्तरयणुक्कड' ति, अत्र व्याख्या - गन्धकापायिक्या - सुरभिगन्धकषायद्रव्यपरिकर्मितया लघुशाटिकया इति गम्यं, गात्रा|णि- भरतशरीरावयवान् रूक्षयन्ति, रूक्षयित्वा च सरसेन गोशीर्षचन्दनेन गात्राण्यनुलिम्पन्ति, अनुलिप्य च देवदूव्ययुगलं निवासयन्ति - परिधापयन्तीति योगः, कथम्भूतमित्याह - नासिकानिःश्वासवातेन वाह्यं दूरापनेयं श्लक्ष्णतरमित्यर्थः, अयमर्थ:- आस्तां महावातः नासावातोऽपि स्वबलेन तद्वस्त्रंयुगलं अन्यत्र प्रापयति, चक्षुर्हरं रूपातिशयत्वात् | अथवा चक्षुर्द्धरं - चक्षुरोधकं घनत्वात्, अतिशायिना वर्णेन स्पर्शेन च युक्तं हयलाला - अश्वमुखजलं तस्मादपि पेलवं - कोमलमतिरेकेण - अतिशयेन अतिविशिष्टमुदुत्वलघुत्वगुणोपेतमिति भावः धवलं प्रतीतं कनकेन खचितानि - विच्छुरितानि अन्तकर्माणि - अञ्चलयोर्वानलक्षणानि यस्य तत् तथा आकाशस्फटिको नाम - अतिस्वच्छस्फटिकविशेषस्तत्सदृशप्रभं अहतं दिव्यं निवास्य च हारं पिनह्यन्ति ते देवाश्चक्रिणः कण्ठपीठे बनन्ति, 'एव' मिति एतेनाभिलापेनार्द्ध For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy