SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥२७४॥ Jain Education | तदीयादर्शेषु च 'अट्ठसएणं सोवण्णिअकलसाण' मित्यादि दृश्यते, अत्र च वृत्तौ 'अट्टसहस्सेणं सोवण्णिअकलंसाण' मित्यादि | दर्शितं तत्कथमनयोर्न विरोधः ?, उच्यते, जीवाभिगमवृत्तौ तानेव विभागतो दर्शयति, अष्टसहस्रेण सौवर्णिकानां | कलशानामष्टसहस्रेण रूप्यमयानां कलशानां अष्टसहस्रेण मणिमयानामित्यादिपाठाशयेनात्र लिखितत्वान्न दोषः, यदि | चात्र कलशानामष्टोत्तरशतसङ्ख्या स्यात्तदा तत्रैव सर्वसङ्ख्यया अष्टभिः सहस्रैरित्युत्तरग्रन्थोऽपि नोपपद्येत, किं च-दृश्यमानतत्सूत्रे विकुर्वणाधिकारे अट्टसहस्सं सोवण्णिअकलसाणं जाव भोमेज्जाणमित्यादि, अभिषेकक्षणे तु अट्ठसएणं सोवण्णिअकलसाणमित्यादीत्यपि विचार्यं । अथ शेषपरिच्छदाभिषेकवक्तव्यतामाह - 'तए ण' मित्यादि, ततो- द्वात्रिंशद्राजसहस्राभिषेकानन्तरं भरतं राजानं सेनापतिरलं यावत्पदात् गाहावइरयणे वढइरयणे इति ग्राह्यं गृहपतिवर्द्धक - रोहितरलानि त्रीणि च षष्टानि - षष्ट्यधिकानि सूपशतानि अष्टादश श्रेणिप्रश्रेणयः अन्ये च बहवो यावच्छब्दात् राजेश्वरादिपरिग्रहः, ततो राजेश्वरतलवरमाडम्बिअकौटुम्बिकेभ्यश्रेष्ठि सेनापतिसार्थवाहप्रभृतय एवमेव - राजान इवाभिषिञ्चन्ति तैर्वरकमलप्रतिष्ठानैस्तथैव कलशविशेषणादिकं ज्ञेयं, यावदभिनन्दन्ति अभिष्टुवन्ति च ततः षोडशदेवसहस्राः एवमेव - उक्तन्यायेनाभिषिञ्चन्ति यत्तु आभियोगिकसुराणां चरमोऽभिषेकः तद्भरतस्य मनुष्येन्द्रत्वेन मनुप्याधिकारान्मनुष्यकृताभिषेकानन्तरभावित्वेनेति बोध्यं, यद्वा देवानां चिन्तितमात्रतदात्वसिद्धिकारकत्वेन पर्यन्ते | तथाविधोत्कृष्टाभिषेकविधानार्थमिति, ऋषभचरित्रादौ तु पूर्वमपि देवानामभिषेकोऽभिहित इति, अत्र यो विशेषस्त Monal For Private & Personal Use Only ३वक्षस्कारे भरतस्य चक्रवर्त्ति | त्वाभिषेकः सू. ६८ ॥२७४॥ www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy