________________
च वर्तमानेषु, तथा सूचीपुटान्तरेषु द्वे सूच्यौ सूचीपुटं तेषामन्तरेषु, पक्षाः पक्षबाहा वेदिकैकदेशविशेषाः तेषु बहूनि उत्पलानि-गईभकानि ईषन्नीलानि वा पद्मानि-सूर्यविकासीनि ईषल्वेतानि वा, नलिनानि-ईपद्रक्तानि कुमुदानि-चन्द्रविकासीनि सुभगानि-पद्मविशेषाः, सौगन्धिकानि-कल्हाराणि पुण्डरीकाणि-श्वेतपद्मानि तान्येव महान्ति महापुण्डरीकाणि शतपत्राणि-दलशतकलितानि सहस्रपत्राणि-सहस्रदलकलितानि एतौ च पद्मविशेषौ पत्रसङ्ख्याविशेषात् पृथगुपाचौ, सर्वरक्षमयानि चैतानि, अच्छा इत्यादिविशेषणानि प्राग्वत्, महान्ति-महाप्रमाणानि वार्षिकाणि-वर्षाकाले पानीयरक्षणार्थ यानि कृतानि तानि वार्षिकाणि तानि च तानि छन्त्राणि च २ तत्समानानि प्रज्ञप्तानि, हे श्रमण! तपःप्रवृत्त ! हे आयुष्मन् !-प्रशस्तजीवित !, 'से एएणडेण मित्यादि, तदेतेनार्थेन-अन्वर्थेन गौतम । एवमुच्यते-पद्मवरवेदिका | पद्मवरवेदिकेति, तेषु तेषु यथोक्तरूपेषु यथोक्तरूपाणि पद्मानि पद्मवरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमिति भावः, व्युत्पत्तिश्चैवं-पद्मवरा-पद्मप्रधाना वेदिका पद्मवरवेदिकेति, अथापरच प्रवृत्तिनिमिचं, किन्तदित्याह-पद्मवरवेदिकायाः शाश्वतं नामधेयं प्रज्ञप्तमिति, अयमभिप्रायः-प्रस्तुतपुद्गलप्रचयविशेषे पद्मवरवेदिकेतिशब्दस्य निरुक्तिनिरपेक्षाऽनादि-18 कालीना रूढिः प्रवृत्तिनिमित्तमिति । 'पउमवरवेइया णं भंते'त्ति पनवरवेदिका शाश्वती उताशाश्वती!, "प्रत्यये डी-18|| ने वा" (श्रीसि०८-३-३१) इत्यनेन प्राकृतसूत्रेण डीप्रत्ययस्य वैकल्पिकत्वेन आबन्ततया सूत्रे निर्देशः, किं नित्या उत अनित्येतिभावः, भगवानाह-गौतम ! स्थाच्छाश्वती स्वादशाश्वती, कथञ्चिद् नित्या कथञ्चिदनित्येत्यर्थः, स्याच्छब्दो 8|
J
on
For
P
e
Person Use Only