SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter नैव सृष्टिक्रमस्य जायमानत्वात्, 'तए ण'मित्यादि पाठसिद्धं, तए णमित्यादि ततः स भरतो राजा आभियोग्यान् देवान् शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रिया ! मम महान् अर्थो मणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स तथा तं महान् अर्ध: - पूजा यत्र स तथा तं महं-उत्सवमर्हतीति महार्हस्तं महाराज्याभिषेकमुपस्थापयतसम्पादयत, आज्ञप्तास्ते यच्चक्रुस्तदाह - 'तए ण' मित्यादि, ततः - आज्ञध्यनन्तरं ते आभियोग्या देवा भरतेन राज्ञा एव| मुक्ताः सन्तो हृष्टतुष्टचित्तेत्यादिरानन्दालापको ग्राह्यः यावत्पदात् 'करयलपरिग्गहिअं दसणहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुर्णेति २ त्ता' इति ग्राह्यं, व्याख्या च प्राग्वत्, अत्रातिदेशसूत्रमाह-एवं- इत्थंप्रकारमभिषेकसूत्रं यथा विजयस्य - जम्बूद्वीपविजयद्वाराधिपदेवस्य तृतीयोपाने उक्तं तथाऽत्रापि ज्ञेयमिति, अत्र च सर्वाभिषेकसामग्री वक्तव्यां, सा चोत्तरत्र जिनजन्माधिकारे वक्ष्यते, तत्र तत्सूत्रस्य साक्षाद्दर्शितत्वात्, तथापि स्थानाशून्यार्थ तथाशब्दसूचितसंग्रहृदर्शनार्थं किञ्चिल्लिख्यते, तदपि लाघवार्थं संस्कृतरूपमेव युक्तमिति तथैव दर्श्यते, अष्टसहस्रं सौवर्णिककलशानां तथा रूप्यमय कलशानां तथा मणिमयकलशानामित्याद्यष्टजातीयकलशानां एवं भृङ्गाराणां आदर्शानां स्थालानां पात्रीणां सुप्रतिष्ठानां मनोगुलिकानां वातकरकाणां चित्रस्नकरण्डकानां पुष्पचङ्गेरीणां यावल्लोमहस्तक चङ्गेरीणां पुष्पपटलकानां यावलोम हस्तपटलकानां सिंहासनानां छत्राणां चामराणां समुद्रकानां ध्वजानां धूपकडुच्छुकानां प्रत्येकमष्टसहस्रं विकुर्वन्ति विकुर्व्य च स्वाभाविकान् वैक्रियांश्चैतान् पदार्थान् गृहीत्वा For Private & Personal Use Only Jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy